खण्डनं कविलिखितघटनायाश्च याथाथ्र्य साधितम । तत्काव्यान्ते चरित चन्द्रिकानाम्ना जैसलमेरबृहज्ज्ञानकोशभाण्डारस्थपुस्तकाट्टिप्पणीसंग्रहो नागरमहो दयस्य संस्करणं सुवर्ण सुगन्धयुक्तमिवाऽकरोत् । टिप्पणीकारः क इति यद्यपि न ज्ञातं तथापि तस्य पाण्डित्यप्रकषों विद्योतत एव । तदिदं विक्रमाङ्कदेवचरिताख्यं महाकाव्यमष्टादशसर्गनिबद्धम् । तत्राऽऽद्येषु सप्तदशसु सर्गेषु चालुक्यवंशोत्पतितज्जातनृपवर्णनपुरस्सरं विक्रमाङ्कदेवचरितं प्रतिपादितम् । अन्तिमे चाऽष्टादशे सर्गे महाकविरात्मवर्णनकथाप्रसङ्गे स्वाभिजनं कश्मीरदेशं तत्पालकान्भपालाँश्चाऽवर्णयत । संस्कृतसाहित्ये महाकाव्यस्याऽस्याऽसाधारणं स्थानम् । एतत्कर्ता विलक्षण काव्यविच्छित्ति-प्रकाशन-प्रवणो विचक्षणवरोऽनल्पमधुरकल्पनाचणो बिल्हणः । विक्रमाङ्कदेवचरितस्य प्रकाशनात्प्रागपि कविवरो बिल्ह्णो भारतीयमहाकविषु प्रधानभावेन संस्तुतः । एतत्कृता 'चौरपञ्चाशिका वा चौरीसुरतपञ्चाशिका कर्णसुन्दरी नाटिका च रसिकमानसेपु हर्वोल्लासप्रकाशिका वर्तते । एवञ्च सुभाषितसंग्रहप्रबन्धेष्वपि ि विल्हणविरचितानि बहूनि पद्यानि संगृहीतानि । सूक्तिसंग्रहणप्रवणजल्हणसंकलितायां सूक्तिमुक्तावल्यामेव विल्हणस्याऽष्टाधिकानि शतसंख्यकानि पद्यानि विलसितानि । किमधिकेन । प्रसादाभिधानेन गुणेन वैदभ्य रीत्या वाऽयं महाकविः काव्यनिर्माणे कविकुलगुरोः कालिदासस्य शैलीं बिभति । शार्दूलविक्रीडितस्रग्धरादिषु वृत्तेषु कवेरस्य शैली भवभूति-श्रीहर्षादि सदृशी दरीदृश्यते । किञ्च कविरयं तत्र तत्र स्वप्रबन्धे कालिदासादिमहाकवीनां छायां स्ववैशिष्ट्यं संस्थाप्यैवाऽनुचकारैतदधिकमस्य महत्वं किं निवेद्यते । काव्यकलेवरपीवरत्वभीत्याऽस्माभि: कृतिरियं भागद्वये कृतविभागा । तथा च सर्गसप्तकमितोऽयं प्रथमो भागः । अथाऽत्र सर्गसप्तकं यावदस्य महाकाव्यस्य स्तोकमालोचनमनुष्ठीयते ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३
एतत् पृष्ठम् अपरिष्कृतम् अस्ति