अन्वयः यत्र हर्षगद्गदा: हंसाः सरसीगुणैः वर्षासु अपि स्थितिं न त्यजन्ति । दुर्जनाः तु अलङ्कनीयस्य वप्रस्य निकामं उन्नतेः यशः दिशन्ति ।
व्याख्या
यत्र पुरे हर्षेणाऽऽनन्देन गद्गदाः पुलकिता हंसाः सरसीनां कासाराणां ‘पद्माकरस्तडागोऽस्त्री कासारः सरसी सरः' इत्यमरः । गुणैर्नेमल्यादिगुणैर्वर्षास्वपि वर्षतविपि स्थितिम् निवासं न त्यजन्ति न मुञ्चन्ति । वर्षाकाले मानसं यान्ति हंसा इति नियमान्मानसं न यान्तीति भावः । दुर्जना अलङ्घनीयस्य पारं कर्तुमयोग्यस्य वप्रस्य प्राकारस्य निकाममत्यन्तमुन्नतेरुच्छायस्य यशः कीर्ति दिशन्ति कुर्वन्त्यारोप यन्तीत्यर्थः । दुर्जनाः परनिन्दाकुशलाः सरसीगुणान्विहाय वर्षासु हंसानां मानसाऽ गमने प्राकाराणामौन्नत्यमेव कारणमुद्घोषयन्तीति भावः । अत्राऽतिशयोक्त्य लङ्कारः ।
भाषा
जहां आनन्द मग्न हंसगण वर्षाऋतु में भी तलावों का पानी गदला न होने से ,अन्य स्थानों के हंसों के सदृश मानससरोवर को न जाकर वहीं रहते थे । दुर्जन लोग जो कभी किसी के गुण की प्रशंसा नहीं करते वे हंसों के अन्यत्र न जाने में इस नगर की चहार दिवारी की उंचाई का यश गाते थे । अर्थात् उस नगरी के अत्यन्त रमणीय सरोवर की प्रशंसा न कर वप्र की ऊँचाई की प्रशंसा करते थे । निशासु यत्रोन्नतसौधसङ्गतिं विगाहमानस्य विधोः कुरङ्गकः । वतंसङ्करमेणचक्षां ग्रहीतुमाकाडति वक्रकन्धरः ॥२३॥