इत्यनेन पद्येन वैदर्भमेव रीतिं प्रशशंस । प्रस्तुतकृतौ कविः वैदर्भमेव
रीतिं प्रायेण समाललम्बे ।
अत्र परमरमणीयेन प्रकारेण स्वविनयवति स्वस्य चोपजीव्यनरपतौ
निरतिशयां भक्तिञ्च द्योतयता महाकविना बिल्हणेनोक्तं-
गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः ।
के वा न शुष्कां मृदमभ्रसिन्धुसम्बन्धिनीं मूर्धनि धारयन्ति । (१-२८)
एवञ्चाऽस्य महाकवेः श्रीहर्षेणाऽधस्तने पद्ये विशिष्टरूपेणाऽनुकरणं व्यधायि ।
'पवित्रमत्राऽऽतनते जगद्यगे स्मता रसक्षालनयेव यत्कथा ।
कथं न सा मद्भगिरमाविलामपि स्वसेविनीमेव पवित्रयिष्यति ।। इति ।
(१-३) नैषधचरिते
निम्नस्थपद्ये कविनिबद्धवक्तुराहवमल्लदेवस्य-
किमश्वमेधप्रभृतिक्रियाक्रमैः सुतोऽस्ति चेन्नोभयलोकबान्धवः ।
ऋणं पितृणामपनेतुमक्षमाः कथं लभन्ते गृहमेधिनः शुभम् । (२-३४)
इत्युक्तिः कीदृशी सहृदयहृदयावर्जिका, कालिदासनिबद्धवक्तुर्दिलीपस्य
लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम् ।
सन्ततिः. शुद्धवंश्या हि परत्रेह च शर्मणे । (रघुवंशे १-६९)
इति वचनं स्वप्रौढ़िप्रकर्षेणाऽतिशेत इत्यत्र विपश्चिद्वरा एव प्रमाणम् ।
, तस्यैवाऽहवमल्लदेवस्यात्मजायां प्रत्यात्मजोत्पादनमनद्य
अधीतवेदोऽस्मि कृतः श्रुतागमः श्रमोऽस्ति भूयानितिहासवत्र्मसु ।
गुरुष्ववज्ञाविमुखं सदा मनस्तदभ्युपायोऽत्र मया न दुर्लभः । (२-३९)
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति