पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्फोट: ‘मुक्तास्फोट:स्त्रियां शुक्तिः’ इत्यमरः । तां समागतां प्राप्तां सुधामिव पीयूषमिवेतीत्थं पूर्वोक्तां गिरमाकाशवाणीं निपीय श्रुत्वा समन्ततः परित उदञ्ची उद्गगतो रोमाञ्च रोमहर्षणं यस्य स उदञ्चिरोमाञ्चस्तस्य भावस्तत्ता तया ‘रोमाञ्चो रोमहर्षणम्' इत्यमरः । शैत्यस्य शीततायास्सम्पर्कः सम्बन्धस्तमिव न्यवेदयत् प्रकटयाञ्चकार । अत्राऽऽकाशे समुद्रतादात्म्यारोपः श्रुतौ शुक्ति– त्वारोपे वाण्यां सुधात्वारोपे च कारणमिति परम्परितरूपकम् । अत्रोपमोत्प्रे– क्षयोः संकरः ।

                      भाषा
        राजा आहवमल्लदेव, आकाशरूपी समुद्र से कर्णरूपी सीप में अमृत रूपी
  आकाशवाणी पड़ने से हर्ष के कारण रोमाञ्चित होकर अपने को मानों जाड़ा
  लग रहा है ऐसा प्रकट करने लगा । (जाड़ा लगने से भी रोंगटे खड़े हो
  जाते हैं ।)
      उदश्चदानन्दजलप्लुतेक्षणस्ततः प्रमोदालसलोचनोत्पलाम् ।
      स वल्लभामन्यपुरान्ध्रिदुर्लभैगुणैरूपेतम्  गुणवानतोषयत् ॥५५॥
                    अन्वयः
    ततः गुणवान् सः उदञ्चदानन्दजलप्लुतेक्षणः (सन्) ક્ષन्यपुरन्ध्रिदुर्लभै:
  गुणैः उपेतां प्रमोदालसलोचनोत्पलां वल्लभाम् ક્ષतोषयत् ।
                    व्याख्य।
    ततस्तदनन्तरं गुणवान्दयादाक्षिण्यादिगुणोपेतः स आहवमल्लदेवनृप उदञ्च–
  दुद्गच्छदानन्दजलमानन्दाश्रुजलं तेन प्लुते व्याप्त ईक्षणे नेत्रे ‘लोचनं नयनं