एतत् पृष्ठम् अपरिष्कृतम् अस्ति
पुरुहूतसन्निभ इन्द्रसदृशः ‘वृद्धश्रवाः शुनाशीरः पुरुहूतः पुरन्दरः' इत्यमरः ।
क्षितेः पृथिव्या ईश्वरः स्वामी कमेण किञ्चित्कालानन्तरं शुभे माङ्गलिके ‘कल्याणं मङ्गलं शुभम् ’ इत्यमरः । मुहूर्ते काले तस्यां स्ववल्लभायां कमनीयं सुन्दरमात्मजं पुत्रं ‘आत्मा बै जायते पुत्रः’ इति श्रुतेः । अवाप्य लब्ध्वा सम्पादितः कृतो मांसलोऽतिबहुलोऽतिसमृद्धश्चोत्सवो महो येन सः ‘मह उद्धव उत्सवः’ इत्यमरः । एवम्भूतस्सन् परां समुत्कृष्टां निवृति सुखमगात् प्राप ।
भाषा
आगे चलकर इन्द्र के समान प्रतापी पृथ्वीपति आहवमल्लदेव ने उस रानी से सुमुहूर्त में एक सुन्दर पुत्र प्राप्त कर और उस उपलक्ष्य में एक बड़ा उत्सव मना कर बहुत आनन्द प्राप्त किया ।
स सोमवन्नेत्रचकोरपारणां चकार गोत्रस्य यदुज्वलाननः । यथोचितं सोम इति क्षमापतेस्ततः प्रसन्नादभिधानमाप्तवान् ।॥५८॥
अन्वयः
यत् उज्ज्वलाननः सः गोत्रस्य सोमवत् नेत्रचकोरपारणां चकार ततः प्रसन्नात् क्षमापतेः यथोचितं सोमः इति अभिधानम् आप्तवान् ।
व्याख्या
यद्यस्मात्कारणादुज्ज्वलं विशिष्टशोभान्वितमाननं मुखं यस्य स नूतनजात– शिशुगत्रस्य चुलुक्यवंशस्य सोमवच्चन्द्र इव नेत्राणि नयनान्येव चकोराश्चकोरकाः “जीवंजीवश्चकीरकः” इत्यमरः । पक्षिविशेषा ये चन्द्रिकया तृप्यन्ति । तेषां पारणां सन्तोषं चकार ततस्तस्मात्कारणात्प्रसन्नादानन्दयुक्तात्क्षमापते राज्ञो