एतत् पृष्ठम् अपरिष्कृतम् अस्ति
मध्यमलोकनायकः सः दिवः उद्गतां अनन्यसामान्यतनूजशंसिनीं गिरं
अजस्रं स्मरन् द्वितीयगर्भार्थं निर्भरं समुत्सुकः अभूत् ।
व्याख्या
मध्यमशचासौ लोकश्च मध्यमलोको भूलोकस्तस्य नायको मध्यमलोकपालो भूपालः स राजाऽऽहवमल्लदेवो दिव आकाशादुद्गतां समागतां नाऽन्यः सामान्य– स्समानो यस्य स चाऽसौ तनूजः पुत्रश्च तं शंसति निवेदयतीति तां गिरं वाणीमजरुत्रं निरन्तरं ‘नित्यानवरताजस्रम्' इत्यमरः । स्मरन् द्वितीयगभर्थ द्वितीयगर्भकृते निर्भरमत्यन्तं समुत्सुक उत्कण्ठितोऽभूत् ।
भाषा
वह भूलोक का राजा असाधारण व अलौकिक पुत्र प्राप्त होने की आकाश– वाणी को सदैव स्मरण करता हुआ, दूसरे गर्भ के लिये अत्यन्त उत्कण्ठित हुअा ।
स्थितस्य गर्भे प्रभयेव कस्यचिद् विलिप्यमानां स्फटिकामलत्विषः । स गण्डपालीं बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ॥६०॥
अन्वयः
ततः पृथिवीपतिः स्फटिकामलत्विषः गभे स्थितस्य कस्यचित् प्रभया इव विलिप्यमानां बिसदण्डपाण्डुरां देव्याः गण्डपालीं ददर्श ।
व्याख्या
ततस्तदनन्तरं पृथिवीपती राजा स्फटिकस्याऽमला निर्मलात्विडिव प्रभेव ‘स्युः प्रभारुगुचिस्त्विड्भाभाच्छविद्युतिदीप्तयः’ इत्यमरः । त्विट् प्रभा यस्य स तस्य स्फटिकमणिसभानशुभ्रकान्तेर्गवभें उदराभ्यन्तरे स्थितस्य विद्यमानस्य कस्य-