पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुचद्वये स्तनद्वये श्यामले कृष्णावर्णे च ते चूचुके कुचाग्रे ‘चूचुकं तु कुचाग्रं स्यात् ' इत्यमरः । तयोश्च्छलाद्ब्याजेन नीलं कृष्णवर्णं प्रभावेणाऽलौकिकशक्त्या संक्रान्तं संगतं रसायनौषध्या आयुर्वर्धकजरानिवारकभेषजस्य दलद्वयमिव पत्रयुगलमिव रराज शुशुभे । अत्र सापन्हवोत्प्रेक्षालङ्कारः ।

                               भाषा

राजपुत्र के उपयोग में आने वाले मृगनयनी रानी के दोनों स्तनों पर काले रंग के चुचुकों (ढेपनी, स्तन के ऊपर की घुंडी) के मिष से मानों अलौकिक शक्ति से युक्त आयुष्य वर्धक और जरा निवारक किसी औषधि के काले रंग के दो पत्ते शोभित हो रहे थे । निरन्तरायाससमर्थमर्थिनां कथं नु दारिद्रयमसौ सहिष्यते । न येन मध्यस्थमपि व्यषह्यत स्थितेन गर्भे नरनाथयोषितः ॥६७॥

                               अन्वयः

असौ अर्थिनां निरन्तरायाससमर्थ दारिद्र्यं कथं नु सहिष्यते । गर्भे स्थितेन येन नरनाथयोषितः मध्यस्थम् अपि (दारिद्र्यं) न व्यषह्यत ।

                               व्याख्या

असौ संजनिष्यमाणपुत्रोऽर्थिनां याचकानां निरन्तरः सतत आयासः क्लेशास्त स्मिन्समर्थं क्लेशकारकमित्यर्थः । दारिद्रयं धनाभावं कथं केन प्रकारेण सहिष्यते न सहिष्यत इत्यर्थः । यतो गर्भे उदरे स्थितेन येन भाविरराजपुत्रेण नरनाथस्य नृपस्य योषितः सीमन्तिन्या ‘स्त्री योषिदबला योषा नारी सीमन्तिनी वधूं इत्यमरः । मध्यस्थमुदरस्थं दारिद्रयं कृशत्वं न व्यषह्यत न सोढम् । गांभण्या उदरं वर्धत एव । अत अनेनोदरस्थकृशत्वरूपदारिद्रचमपहृतम् । अत्रोत्प्रेक्षा गम्या ।