पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उभयतः समागतयोर्द्रविडपतिसोमेश्वरसैन्ययो: स्थितौ स गाम्भीर्येण मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः । मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार । (६-६८) महासत्वो यथा अन्तकः प्रतिभटक्षमाभृतां निर्दयप्रहणनोद्यत्तं ततः । तन्मदद्विरदपादचूर्णितं सैन्यमेककवलं चकार सः । (५-७) विघटनमटवीधनुर्धराणां विषमपथेषु विधाय लीलयैव । पुनरपि स जगाम तुङ्गभद्रां विरचितवन्दनमालिकां तरङ्गः । (५-२५) इत्यादिस्थलेषु राज्ञो महासत्वशालित्वं प्रकटितमेव । स्थेयान यथा प्राप्तमप्यनयपङ्कशङ्कितस्तद्वलं न सहसा जघान सः । अप्रतक्र्यभुजवीर्यशालिनः सङ्कटेऽप्यगहनास्तथाविधाः । (५-६) इत्यत्रोक्तमेव । पुरतः पृष्ठतश्च समागतयोर्विपक्षसैन्ययोः सः स्वधृतिमवलम्बितवान्। निगढभावो यथाः कीदशी शशिमुखी भवेदिति स्पृश्यते स्म हृदये स चिन्तया । कामुकेषु मिषमात्रभीक्षते नित्यकुण्डलितकार्मुकः स्मरः । (५-४८) तथापि अब्रवीच्च मनसः प्रसन्नतां दन्तकान्तिभिरुदीरयन्निव । ओष्ठपृष्ठलुठितस्मिताञ्चलः कुन्तलीनयनपूर्णचन्द्रमाः । (५-५९) इत्यत्राऽस्य निगूढभावबत्वं सुस्पप्टमेव ।