पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृच्छ । पापग्रहाः एव गृहातपापाः (सन्तः) एतस्य साम्राज्यम् श्रमन्य मानाः (सन्ति) । व्याख्या मे ममाऽत्र न किञ्चिद्दूषणम् न कोऽपि दोषोऽस्ति । नाऽहं सोमदेवस्य यौवराज्यदानप्रतिबन्धक इति भावः । यदि ते तव कौतुकं कुतूहलम् ‘कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः । ज्ञातुं महती समुत्कण्ठा भवेदित्यर्थः । तर्हि दैवं जानन्तीति दैवज्ञा ज्योतिषिकाः ‘सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि ' इत्यमरः । तेषां चक्रं समूहं पृच्छ । पापग्रहाः क्रूरग्रहा अनिष्टग्रहा इत्यर्थः । गृहीतानि पापानि दुष्कृतजन्यावृष्टानि यैस्ते गृहीतपापाः सन्त एतस्य सोमदेवस्य साम्राज्यं सम्राट्पदेऽधिरोहममन्यमानाः सन्ति स्वीकुर्वन्ति न समर्थयन्तीति भावः । भाषा सोमदेव को युवराज न बनाने में मेरा कोई दोष नहीं है । यदि तुमको यह जानने की उत्कट इच्छा हो तो ज्योतिषियों से पूछो । (तब तुमको विदित होगा कि) सोमदेव के पापग्रह अनिष्ट कारक होकर इसका साम्राज्य होने में प्रतिवन्धक हैं । साम्राज्यलक्ष्मीदयितं जगाद त्वामेव देवोऽपि मृगाङ्कमौलिः । लोकस्तुतां मे बहुपुत्रतां तु पुत्रद्वयेन व्यतनोत्परेण ॥५०॥ अन्वयः मृगाङ्कमौलिः देवः अपि त्वाम् एव साम्राज्यलक्ष्मीदयितं जगाद् । लोकस्तुतां मे बहुपुत्रतां तु परेण पुत्रद्वयेन व्यतनोत् ।