पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पर हो रह्कर आशचयंजनक काम करथा हुआ रक्षामाण का समानता का प्राप्त हो । अर्थात् रक्षामणि जहाँ बंधा रहता है वहीं रहकर सम्पूर्ण विघ्नों को अपने प्रभाव से दूरकर सव प्रकार का आश्चर्यजनक काम कर मनुष्य की रक्षा करता है वैसे ही सोमदेव अपने स्थान पर ही रहकर मेरी सहायता से आश्चर्य जनक कार्य करने के यश का भागी होकर प्रजा की रक्षा करे ।

इत्यादिभिश्चित्रतरैर्वचोभिः कृत्वा पितुः कौतुकमुत्सवञ्च । श्रकारयज्ज्येष्ठमुदारशीलः स यौवराज्यप्रतिपतिपात्रम् ॥५॥

                   'ऋन्वयः'

उदारशीलः सः इत्यादिभिः चित्रतरैः वचोभिः पितुः कौतुकम् उत्सवं च कृत्वा ज्येष्ठं यौवराज्यप्रतिपत्तिपात्रम् श्रकारयत् ।

                    'व्याख्या'

उदारमसंकुचितं शीलं स्वभावो यस्य स उदारशील उदारस्वभावः स राजपुत्रो विक्रमाङ्कदेव इत्यादिभिरेवम्भूतैश्चित्रतरैर्विचित्रैर्वचोभिर्वाक्यैः पितुराह वमल्लदेवस्य कौतुकं कौतूहलमुत्सवमानन्दावसरञ्च ‘उत्सेकामर्षयोरिच्छाप्रसरे मह उत्सवः' इत्यमरः । कृत्वा जनयित्वा ज्येष्ठं ज्येष्ठभ्रातरं सोमदेवं यौव राज्यस्य युवराजपदस्य प्रतिपत्तिः स्वीकृतिस्तस्य पात्रं स्थानमकारयत् कारित वान् । स्ववचःप्रसरैज्र्येष्ठभ्रातुर्थेवराज्यपदप्रदानस्वीकृति लब्धवानिति भावः ।

                     'भाषा'

उदार स्वभाव वाले उस राजपुत्र विक्रमाङ्कदेव ने ऐसी २ अनेक आश्चर्य जनक बातें कहकर अपने पिता आहवमल्लदेव राजा के कुतूहल और आनन्द के अवसर को उत्पन्न कर. अपने बड़े भाई सोमदेव को युवराज पद पर नियत करने की स्वीकृति कराली ।