अन्वयः अरितक्ष्मीपरिरम्भकेलिसमूसूकgज्यभुजद्वयस्य तस्य केयूरर कण्टकानां तैक्ष्ण्यं छुपाणाहतिभिः निरस्तम् । व्याख्या अरीणां शत्रुणां लक्ष्मीः श्रीस्तस्याः परिरम्भ आलिङ्गनमेव केलिः क्रीड़ा तस्यां समुत्सुकं समुत्कण्ठितं प्राज्यं विशालं भुजद्वयं बाहुयुगलं यस्य तस्य राजकुमारस्य केयूरेऽङ्गदे स्थितानि रत्नानि तेषामङकुराः अग्रभाग एव कण्ट- कानि तेषां तैक्ष्ण्यं तीव्रता कृपाणेः शशूणां खङ्गराहतयः प्रहारस्तै निरस्तं कृतम् । कृपाणाहतिभिः केयूररत्नाङकुरकण्टकानां तैक्ष्ण्यनिराकरणादालिङ्गनं निष्प्रत्यूहम भवदिति भावः । एतेन लक्ष्म्यास्तस्य राजकुमरस्य सर्वतोभावेन स्वीकरणं ध्वन्यते तेन रसाभासध्वनिः । भाषा शत्रुओं की लक्ष्मी की आलिङ्गनरूपी क्रीडा में उत्सुक लम्बी २ दो भुजाओं वाले उस राजकुमार के बिजायट में जड़े हुवे रत्न का अग्रभाग रूपी काटों का तीखापन, शत्रुओं के खङ्ग के प्रहारों से नष्ट हो गया था । अतएव आलिङ्गन में लक्ष्मी को उन काँटों के गड़ने की आशंका न थी । एकातपत्रोर्जितरराज्यलोभा-च्छत्रान्तराणामिव वारणाय । स भूभृतामुनतवंशभाजां दण्डानशेषाञ्छतधा बभंज ॥७३॥ अन्वयः सः एकातपत्रोर्जितराज्यलोभात् छत्रान्तराणां वारणाय इव उन्नतवंश भाजां भूभृताम् अशेषान् दण्डान् शतधा बभंज ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२१५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति