एतत् पृष्ठम् अपरिष्कृतम् अस्ति
== क्षुएएस्तत्करिभिस्तोय-द्विपाङ्घ्रिनिगडोपमाः ।
शयानाः कुण्डलीभूय वार्धितीरे महोरगाः ॥१२॥ ==
अन्वयः
वार्धितीरे तोयद्विपाङिघ्रनिगडोपमाः कुण्डलीभूय शयानाः महोरगाः तत्करिभिः क्षुण्णाः । व्याख्या
वार्धेः समुद्रस्य तीरे तटे समुद्रतटे तोयस्य जलस्य द्विपा गजास्तेषामङघ्रयः पादास्तेषां निगडानां शृङ्खलानामुपमा सादृश्यं येषां ते समुद्रगजनिगडोपमाः ‘अथ श्रृङ्खले । अन्दुको निगडोऽस्त्री स्यात्' इत्यमरः । कुण्डलीभूय मण्डलाकारेण कुण्डलनां विधाय शयानाः सुप्ता महोरगा उरसा गच्छन्तीत्युरगा महान्त उरगा महोरगा महासर्पास्त्स्य विक्रमाङ्कदेवस्य करिभिर्हस्तिभिः क्षुण्णा गजपादैः सम्मर्दिताः । समुद्रतटे सर्पणामाधिक्यं स्वाभाविकमेव । अत्रोपमालङ्कारः । भाषा
समुद्र तट पर जलहाथियों के पांव में बांधने के सिक्कड़ के सदृश मण्डल बाँध कर सोए हुए बड़े २ सांप, उस राजा के हाथियों से कुचल दिये गए ।
== दधिरे तद्वजाः पाद-लग्रपाथोधिमौक्तिकाः । क्षुण्णनक्षत्रपुञ्जस्य सौन्दर्य सुरदन्तिनः ॥१३॥ ==
अन्वयः
पादलमपाथोधिमौक्तिकाः तद्रजाः क्षुएएनक्षऋपुञ्चस्य सुरदन्तिनः