पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'G1 P P p 1 ? ' ( 7 97 • छ । गुफा समझ उसमें शेर रहने लगे । चिन्तया दुर्बलम् देहं द्रविडो यत्पलायितः । संकटाद्रिदरीद्वार-प्रवेशे बह्वमन्यत ॥२६॥ अन्वयः यत्पलायितः द्रविडः संकटाद्रिदरीद्वारप्रवेशे चिन्तया दुर्बलं देहं बहु अमन्यत । व्याख्य यस्माद्विक्रमाङ्कदेवात्पलायितः समराङ्गणं स्वगृहञ्च परित्यज्य द्रुतमति- मवलम्ब्य प्रधावितो द्रविडो द्रविडवेशनृपः संकटं संबाधमल्पावकाशमित्यर्थः । ‘संकटं नातु संबाध' : इत्यमरः । यदद्रे: पर्वतस्य दरीणां कन्दराणां ‘दरी तु कन्दरो वा स्त्री' इत्यमरः । द्वारं ‘स्त्री द्वाद्वरिम् प्रतीहारः' इत्यमरः । तस्य प्रवेशस्तस्मिन् पर्वतकन्दराणामल्पावकाशद्वारप्रवेशे चिन्तया पराजयचिन्तया दुर्बलं सामर्थ्यहिनमत एव कृशं देहं शरीरं बह्व मन्यत प्रशंसितवान् । शरीरस्य स्थूलत्वेऽल्पावकाशाद्रिदरीद्वारे प्रवेशाभावे स्वसंरक्षणमसम्भवमिति स्वकृशत्वं प्रशंसितवानिति भावः । भाषा विक्रमाङ्कदेव के भय से घर दुवार छोड़ कर भागा हुआ द्रविड देश का राजा, पर्वत की कन्दराओं के संकुचित द्वार में (छिपने के लिये) घुसने योग्य, चिन्ता से कृश भये हुए अपने शरीर की बहुत प्रशंसा करने लगा । अर्थात् शरीर स्थूल होने से वह उस कन्दरा में न घुस सकता और उसको छिपने का अवसर न मिलता। इसलिये अपने दुबले पतले शरीर की सराहना करने लगा।