पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रखने वाले राजपुत्र ने पिता जी कुशल तो हैं, ऐसा पूछा । पञ्चभिः कुलकं, पञ्चश्र्लोकात्मकं कुलकं'मत्र समाप्तमित्यर्थः । उपविश्य शनैः पार्श्वे स निरुत्साहया गिरा | कथयामास नासाग्र-विलुठद्वाष्पशीकरः ॥४३॥

                  अन्वयः

सः पार्श्वे शनैः उपविश्य नासाग्रविलुठद्वाष्पशीकरः (सन्) निरुत्साहया गिरा कथयामास ।

                  व्याख्या

स दूतः पाश्वे समीपे शनैर्मन्दमुपविश्य स्थित्वा नासाग्रे नासिकाग्रे विलुठन्तो वर्तमाना वाष्पशीकरा अश्रुबिन्दवो यस्यैवं भूतस्सन् 'शीकरोऽम्बुकणाः स्मृताः' इत्यमरः । निरुत्साहयोत्साहशून्यया गिरा वाचा 'गीर्वाग्वाणी सरस्वती'इत्यमरः कथयामास उवाच ।

                    भाषा

वह दूत धीरे से पास में बैठ कर, नासिका के अग्रभाग में आँसू की बूंद से युक्त होकर अनुत्साहित वाणी से वोलने लगा । विधेहि दृढमात्मानं मावधीरय धीरताम् । कुमार व्यापिपत्य्रेष् दुर्वाताप्रलयाम्बुदः ॥४४॥

  • छन्दोवद्धपदं पध्यं तेन मुक्तेन मुक्तकम् । द्वाभ्यान्तु युग्मकं संदानितकं

त्रिभिरिष्यते । कलापकं चतुर्भिश्च पञ्चभि: कुलकं मतम् । २ निरुत्सवयेत्यपि पाठः