पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इसके वाद अपने प्रेमियों के प्यारे उस राजा ने मार्ग में थोड़े ही ठहराओं (पड़ावों) को देकर दक्षिणापथ की गङ्गा, तुङ्गभद्रा नदी का दर्शन किया । तुङ्गभद्रा नरेन्द्रेण तेनामन्यत मानिना । तरङ्गहस्तैरुत्क्षिप्य क्षिपन्तीवेन्द्रमन्दिरे ॥६३॥ अन्वयः मानिना तेन नरेन्द्रेण तुङ्गभद्रा तरङ्गहस्तैः उक्षिप्य इन्द्रमन्दिरे क्षिपन्ती इव अमन्यत । व्याख्या मानश्चितसमुन्नतिरस्यास्तीति मानी तेन मानिना ‘गर्वोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः' इत्यमरः । तेन नरेन्द्रेणाऽऽहवमल्लदेवनृपेण तुङ्गभद्रा दक्षिणापथगङ्गा तरङ्गा वीचय एव हस्ताः करास्तैस्तरङ्गरूपकरैरुत्क्षिप्योध्वं प्रक्षिप्येन्द्रस्य मन्दिरे स्वर्गे (राजानं) क्षिपन्तीव प्रापयन्तीवाऽमन्यत मेने । अत्रोत्प्रेक्षालङ्कारः । तुङ्गभद्रायां तरङ्गभिन्नहस्तैर्जनानां स्वर्गलोकप्रापणस्य क्रियाया उत्प्रेक्षणात् । भाषा उस उन्नत चित राजा ने , तुङ्गभद्रा नदी, अपने तरङ्गरूी हाथों से मानों उसे स्वर्ग में इन्द्र के मन्दिर में उछाल रही हो, ऐसा समझा । उद्दण्डा तेन डिण्डीर-पिण्डपङ्क्तिरदृश्यत । विमानहंसमालेव प्रहिता पद्मसद्मना ।॥६४॥