पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः धीराणां धौरेयः धरणीपतिः तत्र अवतीर्य स्नात्वा चण्डीशचरणद्वन्द्व चिन्तापरः अभवत् । व्याख्या धीराणां धैर्यवतां धौरेयो धुरीणः ‘धूर्वहे धुर्य धौरेयधुरीणास्सधुरन्धराः’ इत्यमरः । धरण्या धरायाः ‘धरा धरित्री धरणी' इत्यमरः । पतिः स्वामी भूपतिराहवमल्लदेवस्तत्र तुङ्गभद्रानद्यामवतीर्यं प्रविश्य स्नात्वा स्नानं विधाय चण्ड्याः पार्वत्या ईशः पतिश्चण्डीशस्तस्य शिवस्य चरणद्वन्द्वस्य पादयुगलस्य चिन्ता ध्यानं तत्र परो लग्नः शिवचरणयुगलध्यानतत्परोऽभवत् । भषा धीरों का अग्रणी वह आहवमल्लदेव राजा तुङ्गभद्रा नदी में उतर कर और स्नना करके शंकर भगवान् के चरण युगल के ध्यान में तत्पर हो गया । अदत्त चापरिच्छिनमखिनः काश्चनोत्करम् । न कृच्छेऽपि महाभागास्त्यागव्रतपराङ्मुखाः ॥६७॥ अन्वयः अखिन्नः (सः) अपरिच्छिन्नं काञ्चनोत्कारं अदत्त च । महाभागाः कृच्छे अपि त्यागव्रतपराङ्मुखाः न (भवन्ति) । व्याख्या