पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कः अपि अपूर्वः दुर्मेधाः वेधाः समुत्थितः (इति) शङ्के । पुराणः (वेधाः) छेशनिष्पन्नां स्वकृतिं कथं नाशयेत् ।

व्याख्या

कोऽपि कश्चिन्न पूर्वः प्राचीन इत्यपूर्वोऽर्वाचीनो दुष्टा दोषान्विता मेधा बुद्धिर्यस्य स दुर्बुद्धिर्वेधा ब्रह्मा ‘न्नष्टा प्रजापतिर्वेधा विधाता विश्वसृड् विधिः' इत्यमरः । समुत्थितः संवृत्तः (इति) शङ्के तर्कयामि । पुराणः प्राचीनो वेधा ब्रह्मा क्लेशेन महत्प्रयासेन निष्पन्नां सम्पादितां स्वकृतिं राजाऽऽहवमल्लदेवोत्पाद नकार्य कथं नाशयेत् समुन्मूलयेत् । अस्रोत्प्रेक्षालङ्कारः ।

भाषा मालूम होता है कि कोई नवीन, बुद्धिहीन ब्रह्मा आ गया है । क्यों कि यदि पुराना ब्रह्मा होता तो परिश्रम से बनाई हुई राजा आहवमल्लदेव रूपी अपनी वस्तु को कैसे नष्ट करता ।

श्रहो शौर्यमहो धैर्ये चित्रं गाम्भीर्यविभ्रमाः । यत्सत्यं क्वचिदेकत्र गुणास्ते दुर्लभाः पुनः ॥८२॥

श्रन्वयः शौर्यं अहो ! धैर्यं अहो ! गाम्भीर्यविभ्रमाः चित्रम् । यत् क्वचित्। एकत्र पुनः ते गुणाः दुर्लभाः (तत्) सस्यम् ।

व्याख्या शौर्यं नृपाहवमल्लदेवनिष्ठं वीरत्धमहो आश्चर्यकारि । धैर्य नृपाहवमल्लदेवः