व्याख्या दैवेन विधिना 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः । भाग्येनोऽपहतो निरस्तो दुर्भाग्यकवलित इत्यर्थः । सः सोमदेवस्तेजसां प्रभाणां निधय आकरास्तेषां प्रभाकराणां रत्नानां मणीनां संभारं समूहो धारयन् वहन्नपि तमसामन्धःकाराणामज्ञानानां स्तोमैस्समहैस्तिरोहितः प्रच्छन्नो बभूवाऽभूत् ॥ रत्नरूपस्य प्रकाशकारणस्य विद्यमानत्वेऽपि प्रकाशाभावस्य तमसो वर्णनाद्विशे- षोक्तिरलङ्कारः । ‘विशेषोक्तिरखण्डेषु कारेणषु फलावचः'। भाषा दुर्भाग्य से कवलित वह राजा तेजस्वी, व प्रकाश देने वाले रत्नसमूहों को धारण करते हुए भी अन्धकार से (अज्ञान से) आवृत हो गया । उपरि प्रतिबन्धेन ध्यात्वेव नमतोऽखिलान् । अधोंगमनमेवासौ विह्वलो बह्ममन्यत ॥१०८॥ अन्वयः श्रासौ उपरि प्रतिबन्धेन विह्वलः (सन्) अखिलान् नमतः ध्यात्वा इव अधोगमनम् एव बहु अमन्यत । व्याख्या असौ सोमदेव उपरि ऊध्र्वं प्रतिबन्धेन प्रतिरोधेन गन्तुमक्षमत्वेनाऽखिलान् सकलान् जनान् नमतो नर्ति कुर्वतोऽधोगच्छतो वा ध्यात्वेव विचार्येवाऽधोगमनमधः पतनमेव बहु नितान्तोपयोग्यमन्यत बिज्ञातवान् । दैवहतस्य तस्योन्नतिकरण- मसम्भवमिति स्वपुरतः सकलान् जनान् प्राणतान् दृष्ट्वा सोऽप्यधःपतनमेवोप- योगीति निर्धारितवानिति भावः । उत्प्रेक्षालङ्कारः ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति