दुःश्रवा इति भावः । पक्षिणामाधिक्यात्तत्रस्थफलसम्पत्तिध्र्वनिता । योक्त्यलङ्कारः । भाषा बागों के पक्षियों के कूजित से दबे हुए गलों के शब्द वाली मृगनयनी स्त्रियाँ अपनी दक्षता के उत्कर्ष को प्रकट करने में समर्थ न हो सकीं । अर्थात् पक्षियों के जोर से होने वाले कलरव से उनकी कोमल व मधुर ध्वनि सुनाई नहीं पड़ सकती थी । यत्र तिष्ठति विरोधमुद्वहन् दाहतः प्रभृति तेजसा सह । मेचकक्रमुककाननावली-मीलितोष्णकिरणार्चिषि स्मरः ॥२०॥ अन्वयः अतिश मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यत्र स्मरः दाहृतः प्रभृति तेजसा सह विरोधम् उद्वहन् तिष्ठति । व्याख्या मेचकानां कृष्णवर्णानां क्रमुकाणां पूगवृक्षाणां काननानि वनानि तेषामावली पंक्तिस्तया मीलितान्यवरुद्धान्युष्णकिरणस्य सूर्यस्याऽचींषि मयूखा यस्मिन्तस्मिन् मेचकक्रमुककाननावलीमीलितोष्णकिरणार्चिषि यत्र वनवासमण्डले स्मरः कामदेवो दाहतशिावतृतीयनेत्राग्निभस्मीकरणात्प्रभृति तेजसा येन केनाऽपि तेजस्सा मान्येन सह विरोधं विद्वेषमुद्वहन् धारयन् तिष्ठति निवासं करोति । शिवनेः त्राग्निविरोधेन तेजस्सामान्येन द्वेषात्सूर्यतेजसोऽप्यत्राऽन्नागमनादत्र वने स्मरः स्थितिमवलम्बते इति भावः । स्मरे तेजसा विरोधरूपस्य धर्मस्योत्प्रेक्षणादुत्प्रेक्षा लङ्कारो गम्यते, तेन च काननानां क्रीडायोग्यत्वं ध्वन्यत इति वस्तृध्वनिः ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३०७
एतत् पृष्ठम् अपरिष्कृतम् अस्ति