पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः श्रवणामृतस्य अनभ्रव्रुश्टिः सरस्वतीविभ्रमजन्मभूमिः पदानां सौभाग्र्य- लाभप्रतिभूः वैदर्भरीतिः कृतिनाम् उदेति । व्याख्या अवणस्य कर्णस्य यदमृतमानन्ददायिवस्तु तस्य श्रवणामृतस्य कर्ण-पीयूष- स्याऽभ्राणां मेघानां ‘अभ्रं मेघो वारिवाहस्तनयित्नुर्बलाहकः' इत्यमरः । व्रुश्टि- र्वर्षणमभ्रवृष्टिरनर्भ्रवृष्टिरनभ्रवृष्टिर्मेघमन्तरैव बर्षणरूपा सरस्वत्या वाग्देवताया विभ्रमस्य विलासस्य जन्मभूमिरुत्पत्तिस्थानं 'स्त्रीणां विलास विव्वोकविभ्रमाल- लितं तथा' इत्यमरः । पदानां शब्दानां सौभाग्यलाभस्य सौन्दर्यप्राप्तेः प्रतिभूः प्रतिलग्निका वैदर्भरीतिः गडीपाञ्चालीवैदर्भाति रीतित्रय एकतमा 'माधुर्य व्यञ्जकैर्वर्णै रचना ललितात्मिका । अवृतिरल्पवृतिर्वा वैदर्भीरीतिरुच्यते' । कृतिनां विशिष्टकाव्यरचनाकुशलानां पुण्यवतां कवीनामुदेति प्रादुभर्वति । केवलं भाग्यवन्तः कुशलाश्च तथाविधालौकिक-गुणविशिष्ट-वैदर्भरीतौ काव्यं रचयितुं प्रभवन्तीति भावः । वैदर्भरीतौ ष्रवणाम्रुतानभ्रव्रुष्टेर्वाणीविलासजन्मभूमेः सौभाग्यलाभप्रतिभूत्वस्य दाऽऽरोपाद्रूपकालङ्कारः। ‘तदूपकमभेदो य उपमानो- पमेययोः । । भाषा वैदर्भीरीति का आविर्भाव उत्कृप्ट और अच्छे काव्य की रचना करने में कुशल, पुण्यात्मा कवियों में ही होता है । अर्थात् वैदर्भीरीति में रचना हर एक कवि नहीं कर सकता । यह वैदर्भीरीति श्रवणेन्द्रिय को आनन्द देनेवाले अमृत की बिना मेच की वर्पा है, वाणी के विलास का जन्म स्थान है और पदों को यथोचित स्थान प्राप्त होकर उनके मौन्दर्युवृद्धि की जामिन है ।