व्याख्या सरस्वती वागधिष्ठातृदेवता पञ्चमनादस्य पञ्चमस्वरस्य पिकस्य वा ‘पिका गायन्ति पञ्चमम्’ मित्राणि समानानि चित्राणां रसालङ्कारादिना चमत्कारिणी- नामुक्तीनां काव्यानां सन्दर्भाः समूहाः सम्यग्विरचनानि वा विभूषणान्यलङ्कर- णानि येषां तेषु येषां कवीनां वदनेषु मुखेषु नित्यं निरन्तरं वीणां कच्छपीं वादयन्तीव सारयन्तीवाऽऽभाति चकास्ति ते कवीश्वरा जयन्ति सर्वोत्कर्षेण वर्तन्ते । कविवदने सरस्वत्या वीणावादनस्योत्प्रेक्षणात्क्रियापास्वरूपधर्मोत्प्रेक्षा । अभेदसम्बन्धातिरिक्तसम्बन्धेन वीणावादनस्य कविवदने सम्भाव्यमानत्वात् । भाषा वे कवीश्वर धन्य हैं, जिनके कोयल के शब्द के समान कर्णेन्द्रिय को सुख देने वाली, रस अलङ्कार आदि से युक्त, चमत्कार पैदा करने वाली उक्तियों से अथवा कविता समूहों से विभूषित मुखों में, सरस्वती अपनी कच्छपी बीन बजाती सी सदैव शोभित होती है । साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणोभवन्ति ॥११॥ अन्वयः हे कवीन्द्राः साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत । यत् अस्य लुण्ठनाय काव्यार्थचौराः दैत्याः इव प्रगुणीभवन्ति । व्याख्या हे कवीन्द्राः कविश्रेष्ठाः साहित्यमेव साहित्यशास्त्रमेव पाथसामुदकानां कबन्धमदकं पाथः' इत्यमरः । निधिः समदस्तस्य मन्थनं चिराभ्यासस्तस्मा-
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति