पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मर्षिभिर्ब्रह्ममयीममुष्य सार्द्धं कथां वर्धयतः कदाचित् । त्रैलोक्यबन्धोः सुरसिन्धुतीरे प्रत्यूषसन्ध्यासमयो बभूव ॥३३॥ श्रन्वयः कदाचित् सुरसिन्धुतीरे ब्रह्मर्षिभिः सार्द्धं ब्रह्ममयीं कथां वर्धयतः त्रैलोक्यबन्धोः अमुष्य प्रत्यूषसन्ध्यासमयः बभूव । व्याख्या कदाचित्कस्मिश्चित्समये सुरसिन्धोः स्वर्गङ्गायास्तीरे तटे ब्रह्मर्षिभि: श्रेष्ठ मुनिभिस्सार्द्ध सह ब्रह्ममयीं परब्रह्मविषयिणीं कथां वार्ता वर्धयतो विकासं नयतस्त्रैलोक्यस्य बन्धुर्मित्रं तस्य त्रैलोक्यहितकारकस्याऽमुष्य ब्रह्मणः प्रत्यूषस्य प्रातःकालस्य ‘प्रत्यूषोऽहर्मुखं कल्यमुषः प्रत्युषसी अपि' इत्यमरः । सन्ध्यायाः सन्ध्यावन्दनादेस्समयः कालो बभूव जातः । कथारसे मग्नानां तेषां समयज्ञाना भावात्प्रातःकालसन्ध्यावन्दनावसरः सम्प्राप्त इति भावः । भाषा किसी समय आकाशगङ्गा के किनारे ब्रह्मर्पियों के साथ परब्रह्मसम्बन्धि कथा का विस्तार करते करते तीनों लोकों के मित्र अर्थात् हित चाहने वाले ब्रह्मा जी का प्रात:काल का सन्ध्यावन्दन करने का समय उपस्थित हो गया । अर्थात् परब्रह्म की चर्चा में इतने लीन हो गये थे कि बातें करते करते सब रात बीत गई। मृणालसूत्रं निजवल्लभायाः समुत्सुकश्चाटुषु चक्रवाकः । अन्योन्यविश्लेषणयन्त्रसूत्र-भ्रान्त्येव चञ्चुस्थितमाचकर्ष ॥३४॥