सा चन्द्रिका चन्दनपङ्ककान्तिः शीतांशुशाणाफलके ममञ्ज ॥३८॥ अन्वयः या रथाङ्गनान्नाम् अङ्गेषु परस्परादर्शनलेपनत्बं जगाम सा चन्दनपङ्क कान्तिः चन्द्रिका शीतांशुशाणाफलके ममज्ज । व्याख्या या रथस्याऽङ्गं चक्रं नाम येषां तेषां रथाङ्गनाम्नां चक्रवाकपक्षिणामङ्गेष्ववयवेषु परस्परस्याऽन्योन्यस्य यददर्शन तदेव लेपनं तस्य भावस्तत्वमन्योन्यादर्शनप्रयोज कलेपनद्रव्यत्वं जगाम प्राप्तवती, रात्रौ चन्द्रिकया निखिललोके नितान्तं धवलितेऽपि चक्रवाकयुगलस्याऽन्योन्यदर्शनं न सम्भवतीति कविलोकप्रसिद्धम् । तत्रोत्प्रेक्ष्यते तेषां पक्षिणामङ्गेषु चन्द्रिकारूपविलेपनद्रव्यविशेषेण लेपस्य जायमानत्वाद्विवि क्तत्वेनाऽङ्गानामविभावनम् । सा चन्दनपङ्कस्य कान्तिरिव कान्तिर्यस्याः सा चन्द्रिका (प्रातःकालसमये) शीतांशुश्चन्द्रः शाणाफलकमिवेत्युपमितसमासः, चन्द नघर्षणोपलमिव तस्मिन् ममज्ज तिरोहिता बभूव । जाते प्रत्यूषे चन्द्रस्य निष्प्रभ त्वात्तस्य शरीरे चन्द्रिका समाविष्टा सती नाऽन्यत्र परिदृश्यते । चन्दनस्य यथा शाणोपरि घर्षणेन चन्दनाऽभावेऽपि तत्कान्तिः शाणोपरि दृश्यते तथैव साम्प्रतं चन्द्रिकायाः सर्वत्राऽभावः संजातः किन्तु तत्स्वरूपं शाणफलकसदृशवर्तुलाकार चन्द्रोपरि केवलं परिदृश्यते । अत इदं ज्ञायते यच्चन्द्रिकाऽस्मिन्सुधांशावेव प्रविष्टा सती निमग्ना जाताऽदृश्यत्त्वं गतेत्यर्थः । चन्द्रिकायाश्चन्दनपङ्केन सह सादृश्यादुपमा । भाषा रात को चकवा और चकई का वियोग होता है और वे परस्पर देख नहीं
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५९
एतत् पृष्ठम् अपरिष्कृतम् अस्ति