महता पारश्रमण सम्पाद्य मुद्रत सवषामवाऽस्मदादाना प्रशसास्पदम् । परञ्च यत्र कुत्रचित्पाठभेदविचारे कार्यसम्पादनरभसादन्यकारणाद्वाऽत्र पाठभेदनिर्णये स्खलनं वरीवति । तत्तस्थानान्युत्सृज्य सर्वत्रैवाऽस्मिन्पुस्तकेऽस्यै पुस्तकस्य पाठक्रमः स्वीकृतः । श्रीनागरमहोदयैजैसलमेरबृहज्ज्ञानकोषभाण्डारस्थाद्धस्तलिखितात्पुस्तकात् म हता श्रमेण टिप्पणीसंग्रहं कृत्वा चरितचन्द्रिका नाम्ना सा परिशिष्टरूपेण स्वपुस्तके संगृहीता, केनाऽपि कविरहस्यकुशलेनैव धीमतैषा गुम्फितेत्यत्र नाऽस्ति सन्देहलेशावसरः । ईशवीय १२८६ वर्षतोऽपि प्राचीनेऽस्मिन् हस्तलिखिते पुस्तके टिप्पण्येषा स्वप्राचीनत्वं प्रकटयत्येव । कुत्रचित् “अस्य शब्दस्यार्थागमो न जायते' इति स्पष्टं लिखित्वा टिप्पणीकृता विदुषा निरहङ्कारं स्वपाण्डित्यं परिचायितम् । गुणिनो न दुराग्रहा इति स्वगुणित्वमपि प्रकटितम् । टीकाया अभावेऽर्थावबोधविषये टिप्पण्येषा बहुषु स्थलेषु विदुषां पाठकानामतीवोकारिणीति बहुषु संस्कृतविद्यालयेषु विश्वविद्यालयेषु चैतत्पुस्तकं पाठ्यपुस्तकत्वेन निर्धारि तमपि न कुत्राऽप्याऽऽपणे लभ्यमिति हेतोहिन्दूविश्वविद्यालयीय-संस्कृतसाहित्या नुसन्धानसमित्याऽ (The Sanskrit Sahitya Research Committee, B. H. U.) स्य महाकाव्यस्य प्रकाशनं नितान्तमावश्यकं मत्वा मयि तत्सम्पादनभार स्समारोपितः । कठिनमप्येतत्कार्य विघ्नपरम्परामनुभवताऽपि मया साहित्य व्याकरणाचार्य-एम्. ए.-पदवीविभूषितानां सम्प्रति हिन्दू विश्वविद्यालयीय-संस्कृत महाविद्यालये साहित्यविभागाध्यक्षपदं भूषयतां श्री पं . रामकुवेरमालवीयानां हार्दिकसाहाय्येन श्री जगज्जननीसंकष्टहरणीकृपयैव संस्कृतव्याख्याभापाटीकाभ्यां सहितं सप्तसगन्तमेतन्महाकाव्यं सम्पाद्य प्रकाश्य च विद्वत्करकमलेषु सादरं स्थाप्यते । पाठयपुस्तकत्वेन निर्धारितमेतन्महाकाव्यं टीकाभूषितञ्चेत् परीक्षार्थिनां
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति