पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विज्ञापितः शेखरपारिजात-द्विरेफनादद्विगुणैर्वचोभिः ॥३९॥ अन्वयः अथ सन्ध्यासमाधौ स्थितः भगवान् बद्धाञ्जलिना शक्रेण प्रणम्य शेखरपारिजातद्विरेफनादद्विगुणैः वचोभिः विज्ञापितः । व्याख्या अथाऽनन्तरं ‘मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ' इत्यमरः । सन्ध्या समाधौ सन्ध्याकालिकध्यानयोगे स्थितो लग्नो भगवान् ब्रह्मा बद्धोऽञ्जलिर्यस्य तेन कृताञ्जलिना शकेणेन्द्रेण प्रणम्य नमस्कृत्य शेखरे शिरसि शिरोभूषणरूपो यः पारिजातो देवकुसुमविशेषस्तस्मिन्ये द्विरेफा भ्रमराः ‘द्विरेफपुष्पलिङ्भृङ्गषट्पद भ्रमरालयः' इत्यमरः । तेषां नादेन झङ्कारेण द्विगुणैद्विगुणीभूतैरुपचीयमानैर्व चोभिर्वचनैविज्ञापितो निवेदितः ।

भाषा इस के अनन्तर सन्ध्याकाल के ध्यान में मग्न ब्रह्मा जी को इन्द्र ने हाथ जोड़कर प्रणाम कर के, अपने मस्तक पर शोभा के लिये धारण किये हुए पारि जात के फूलों पर गूंजने वाले भौंरो की झङ्कार से प्रतिध्वनित, दूने ऊँचे स्वर में निवेदन किया ।

इतः परं शक्रश्चतुर्भिः श्लोकैः स्वीयमैश्वर्यं निरूपयन् ब्रह्माणे स्तॉति- श्रास्ते यदॅरावणवारणस्य मदाम्बुसङ्गान्मिलितालिमाला । साम्राज्यलक्ष्मीजयतोरणाभे दन्तद्वये बन्दनमालिकेव ॥४० ।।