पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इत्यमरः । साम्राज्यलक्ष्म्याः सार्वभौभश्रियो जयसूचकं तोरणं बहिर्द्वारं तस्याऽऽभा कान्तिरिवाऽभा यस्य तत्तस्मिन् दन्तद्वये रदनयुग्ने ‘रदना दशना दन्ता रवाः' इत्यमरः । मदाम्बुसङ्गान्मदजलसंसर्गान्मिलिता समागताऽलिमाला भ्रमर पडक्तिर्वन्दनमालिकेव चूताशोकादिपत्रमालेव' वन्दनवार इति लोके प्रसिद्धा । आस्ते शोभते--स सर्व एव त्वत्पादसेवारजसां प्रभाव इत्यग्रिमेण श्लोकेनाऽन्वयः । आम्राऽशोकपल्लवैः संग्रथिता माला मङ्गलकार्येषु द्वारोपरि निबध्यते । दन्तद्वये विजयतोरणसाम्यादलिमालिकायाश्च वन्दनमालिकासाम्यादुपमा । भाषा यह जो (मेरे) ऐरावण नामक हाथी के, सब भुवनों की विजय श्री के वाहरी फाटक के समान शोभा देने वाले दोनों दातों पर, मदजल के चूने से एकत्रित भॉरे वन्दनवार से दिखाई देते हैं (वह आपकी चरण सेवा की धूलि का ही प्रभाव है) इसका ४३ वें श्लोक से सम्बन्ध है । यदातपत्रं मम नेत्रपद्म-सहस्रलोलालिकदम्बनीलम् । कुरङ्गनाभीतिलकप्रतिष्ठां मुखे समारोहति राजलक्ष्म्याः ॥४१॥ अन्वयः

यत् मम नेत्रपद्मसहस्रलोलालिकदम्बनीलम् आतपत्रं राजलक्ष्म्याः मुखे कुरङ्गनाभीतिलकप्रतिष्ठां समारोहति (स त्वत्पादसेवारजसां प्रभाव इत्य ग्रिमेण श्लोकेनाSन्वितम्) ।

  • व्याख्या

यच्छब्दो वाक्यार्थपरामर्शकः । मम मदीयं नेत्राण्येव नयनान्येव पद्मानि कमलानि तेषां सहस्रमिन्द्रस्य सहस्राक्षत्वात् । तस्मिन्यल्लोलालीनां चञ्चल