पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः वा बहूक्तैः किम्। यत् एषः पुरुहूतः अनङ्कशस्य महिन्नः पात्रं, स्वामिन्, सः सर्वः अपि शिरोधृतानां त्वत्पादसेवारजसां प्रभावः (अस्ति) । व्याख्या वाऽथवा बहून्युक्तानि कथितानि तै बहुकथनैः किं, किं प्रयोजनम् न किम पीत्यर्थः । यदिति वाक्यार्थपरामर्शकः । एष सन्मुखस्थः पुरुहूत इन्द्रो ‘इन्द्रो मरुत्वान्मघवा बिडौजाः पाकशासनः । वृद्धश्रवाः सुनाशीरः पुरुहूतः पुरन्दरः' इत्यमरः । नास्त्यङकुशः प्रतिबन्धको यस्य तस्याऽप्रतिहतस्य महिम्नो महत्वस्य पात्रं भाजनमस्तीत्यर्थः । हे स्वामिन् हे निग्रहानुग्रहसमर्थ ब्रह्मन् स सर्वोऽपि शिरोधृतानां मस्तकोपरि धारितानां सेवाया रजांसि धूलिकणानि सेवासम्बन्धि रजांस्यर्चनीयधूलिकणानीत्यर्थः, त्वत्पादयोस्तव चरणयोस्सेवारजांसि तेषां प्रभावः प्रतापः कार्यमित्यर्थः, अस्ति । चक्कलकमर्थात् कलापकम् । शब्दोऽयं कलापकार्थे कश्मीरे रूढः । भाषा अथवा, अधिक कहने से क्या लाभ । हे स्वामिन् यह मैं इन्द्र जो असीम महिमा का पात्र हुआ हूँ, यह सब सिर पर धारण की हुई आपकी चरण सेवा की धूलि का ही प्रताप है । (जहां चार श्लोकों में अर्थ की पूर्ति होती है उसे कलापक कहते हैं । कश्मीर में कलापक को चक्कलक कहते हैं ।) १ छन्दोबद्धपदं पद्य तेन मुक्तेन मुक्तकम् ।