पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नाथ, चारजनेन सम्प्रति क्षितौ तथा विष्वः मे निवेदितः यथा निर्ज राणां यज्ञविभागभोगः स्मर्तव्यताम् एष्यति (इति) मन्ये । व्याख्या हे नाथ हे स्वामिन् ब्रह्मन् ! चर एव चारश्चार एव जनस्तेन गुप्तचरेण

सम्प्रत्यधुना क्षितौ पृथिव्यां लथा तादृशो विप्लवो डिम्बो ‘डिम्बे डमरविप्लवौ' इत्यमरः । नरलुण्ठनाद्युपसर्गविशेष इत्यर्थः । मे मह्य निवेदितो विज्ञापितो यथा येन प्रकारेण निर्जराणां देवानां ‘अमरा निर्जरा देवाः' इत्यमरः । यज्ञेषु ऋतुषु विभागा देवेभ्योऽर्पणीयद्रव्यविभागास्तेषां भोगो ग्रहणमुपभोगश्च स्मर्तव्यतां स्मरणीयतामेष्यति प्राप्स्यतीति मन्ये जानामि तर्कयामीत्यर्थः । विप्लवैरग्रे देवेभ्यो यज्ञभागा नाऽर्पिता भविष्यन्तीति तर्कयामीतिभावः । भाषा हे नाथ ब्रह्मा जी ! गुप्तचर ने पृथ्वीपर होनेवाले ऐसे की मुझे

सूचना दी है जिनसे देवताओं का, यज्ञों में मिलने वाले भागों का उपभोग, केवल स्मरण करने का ही विषय हो जाएगा, ऐसा मैं अनुमान करता हूँ । अर्थात् ऐसे उपद्रवों से भविष्य में यज्ञों में देवताओं को भाग नहीं दिया जाएगा ऐसा मेरा अनुमान है । धर्मद्रुहामत्र निवारणाय कार्यस्त्वया कश्चिदवार्यवीर्यः । रवरिवांशुप्रसरेण यस्य वंशेन सुस्थाः ककुभः क्रियन्ते ॥४५॥