उत्खातविश्वोत्कटकण्टकानां यत्रोदितानां पृथिवीपतीनाम् । क्रीडागृहप्राङ्गणलीलयैव बभ्राम कीर्तिर्भुवनत्रयेऽपि ।॥६०॥ अन्वयः यत्र उदितानाम् उत्खातविश्वोत्कटकण्टकानां पृथिवीपतीनां क्रीडागृहप्राङ्गणलीलया एव भुवनत्रये अपि बभ्राम । व्याख्या कीर्तिः यत्र चालुक्यवंशे उदितानां समुत्पन्नानामुत्खातानि समूलमुच्छेदितानि विश्वस्य संसारस्योत्कटाः प्रकाण्डाः कण्टका विध्नभूता दुष्टा राजान (क्षुद्रशत्रवः) यैस्तेषां पृथिवीपतीनां महीपतीनां कीर्तिर्यशः क्रीडागृहस्य लीलागृहस्य यत्प्राङ्गण माभ्यन्तरभूमिस्तस्मिन्या लीलाऽधिकपरिश्रम् विना सञ्चरणादिविलासस्त्यैवाऽना यासेनैव भवनत्रयेऽपि लोकत्रयेऽपि बभ्राम सञ्चच्छाल । संसार के अत्यन्त भयङ्कर उपद्रव रूपी क्षुद्र राजाओं को समूल नष्ट करने वाले, चालुक्य वंश में उत्पन्न राजाओं की कीर्ति, क्रीडागृह के अंगने में रहने के समान ही तीनों लोकों में आनायास से ही फैल गई । अर्थात् विरोधी राजाओं का नाश कर देने पर तीनों लोकों में निष्कण्टक राज्य हो जाने से विरोधियों के अभाव में सर्वत्र अनायास ही कीर्ति फैल गई। क्योंकि तीनों लोक उनके लिये निर्भय घर के अँगने के समान हो गया था । यत्पार्थिवैः शत्रुकठोरकण्ठ-पीठास्थिनिलोंठन-कुण्ठधारः । निन्ये कृपाणः पटुतां तदीय-कपालशाणोपलपट्टिकासु ॥६१॥
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७६
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
![](http://upload.wikimedia.org/wikipedia/commons/thumb/5/5b/%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%9A%E0%A4%B0%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A5%8D_.djvu/page76-1024px-%E0%A4%B5%E0%A4%BF%E0%A4%95%E0%A5%8D%E0%A4%B0%E0%A4%AE%E0%A4%BE%E0%A4%99%E0%A5%8D%E0%A4%95%E0%A4%A6%E0%A5%87%E0%A4%B5%E0%A4%9A%E0%A4%B0%E0%A4%BF%E0%A4%A4%E0%A4%AE%E0%A5%8D_.djvu.jpg)