पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/339

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षोणिरेणुमिषतः सदाध्वगः स्यन्दने रचयति स्म भास्करः । पश्चिमाद्रिविषमस्थलीभुवां पूरणार्थमिव संग्रहं मृदः ॥६७॥ सद्बुध्वगः भास्करः क्षोणिरेणुमिषतः , पश्चिमाद्रिविषमस्थलीभुवां पूरणार्थेम् इव स्यन्दने मृदः संग्रहं रचयति स्म । ठयाख्य सदा निरन्तरमध्वनि मागें गच्छतीति सदाध्वगः सदैव गमनशीलः पान्थ इत्यर्थः । अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि' इत्यमरः । भास्करः सूर्यः क्षोणेः पृथिव्या रेणुर्धूलिस्तस्य मिषतो व्याजात् पृथ्वीधूलिव्याजात् पश्चिमाद्विः पश्चिमपर्वतस्तस्य विषमा उन्नतानताः स्थल्यो भूमिभागास्तासामस्ताचलस्थितगर्तानां पूरणार्थमिव भरणार्थमिव समीकरणार्थमित्यर्थः । स्यन्दने स्वरथे मृदो मृत्तिकायास्संप्रहमेकत्रीकरणं रचयति स्म सम्पादयति स्म । अत्रोत्प्रेक्षालङ्कारः । ReTo सदैव चलते रहने वाला सूर्य, पृथ्वी की धूलि के बहाने से मानों पश्चिमाचल अर्थात् अस्ताचल की ऊंची नीची जमीन को भर कर समथल बनाने के लिये अपने रथ पर मिट्टी एकत्रित कर रहा था । नुन्दूनुद्बुमनिकुञ्जपुञ्जितैः पांसुभिः कुसुमधूलिवासितैः। चौर्यकेलिशयनोपयोगतस्तुष्यति स्म सुरपांसुलाञ्जनः ॥६८॥