पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/385

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रवणमधुरावस्फुरद्ध्वनाना व्यधुरुपकाराधयव षट्पदानाम् । मदसलिलमुदारसौरभं ये विटपिविधूननपातिभिः प्रसूनैः ॥४३॥

ये श्रवणमधुरविस्फुरद्ध्वनीनां षट्पदानाम् उपकारधिया इव विष्टपैिविधूननपातिभिः प्रसूतैः मदसलिलम् उदारसौरभं व्यधुः । व्याख्या ये सोमदेवगजाः श्रवणयोः कर्णयोर्मधुरः सुश्राव्यः कोमल इत्यर्थः । विस्फुरद्विलसद् ध्वनिः शब्दो येषां ते तेषां श्रवणमधुरविलसच्छब्दानां षट्पदानां भ्रमराणां 'षट्पदभ्रमरालय:' इत्यमर: । उपकारधिया हितसम्पादनबुद्धयेव विटपिनां वृक्षाणां विधूननेनाऽऽन्दोलनेन पातिभिरधःपतनशीलैः प्रसूनैः पुष्पैर्मदसलिलं मदजलमुदारोऽधिकः सौरभः सुगन्धो यस्मिस्तद्वव्यधुः संचक्रुः । कर्णमधुरशब्देनोपकृता गजा: स्वमदं पुष्परसेनाऽधिक सुस्वादु विधाय भ्रमरान् प्रत्युपकुर्वन्ति स्मेति कविरुत्प्रेक्षते । गज-भ्रमरयो: परस्परमादानप्रदानाभ्यां परिवृत्तिर्नामालङ्कारः । भाषा इन सोमदेव के हाथियों ने कान में आनन्द देने वाली गुंजार करने वाले भौंरों पर मानों उपकार करने की बुद्धि से वृक्षों को झकझोरने से गिरे हुए फूलों से अपने मद जल की अधिक सुगन्धित बना दिया। अर्थात् भ्रमरों के शब्द द्वारा आनन्द देने से उपकृत होकर उनके लिये अपने मद जल की फूलों से अधिक सुगन्धित बनाकर उनका प्रत्युपकार किया । निजतनुभरगौरवाद्गलन्तीं क्षितिमिव ये दधति स्म शैलतुङ्गाः ।