पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/386

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निमीलितानि लोचनानि नयनानि येषां ते सविलासं सलील चलन्तो मन्दविक्षेप कुर्वन्तो ये सोमदेवगजा उन्नमद्भिरूध्र्वं क्रियमाणैः करैः शुण्डादण्डैनिजाः स्वकीयास्तनबो देहास्तेषा भरस्य भारस्य गौरबात् स्थूलत्वेन गुरुत्वाद्गलन्तीमधो विशन्ती क्षिति भूम किमपि किञ्चिदपि दधति स्मेवोपरि गृह्णन्ति स्मेव ॥ भाषा पर्वत के ऐसे ऊँचे, मद से अधखुली आंखवाले व मस्ती से झूम झूम कर धीरे धीरे चलने वाले सोमदेव के हाथी, अपने शरीर के बोझे से नीचे धंसने वाली पृथ्वी को मानों अपनी सूड ऊपर उठा कर कुछ उभार रहे थे । रणजिलधिविलोडनष्प्रचण्डा गिरय इव द्विरदेश्वरास्तदीयाः । दधुरतिमहतीमतीतसंख्याः श्रियमधिरोहितयोधमण्डलास्ते ॥४५॥ 2ez: अतीतसंख्याः अधिरोहितयोधमण्डलाः रणजलधिविलोडनप्रचण्डाः गिरयः इव ते तदीयाः द्विरदेश्वराः अतिमहतीं श्रियं दधुः । व्याख्या अतीतसंख्या: संख्यामतिक्रम्य वर्तन्त इत्यतीतसंख्या गणनारहिता अधिरोहितानि स्वपृष्ठोपरि स्थापितानि योधानां सुभटानां मण्डलानि समूहा पैस्ते रणी युद्धमेव जलधिस्समुद्रस्तस्य विलोडनेऽवगाहने मन्थने प्रचण्डा निष्णाता गिरय इव पर्वता इव विशाला इत्यर्थः । ते प्रसिद्धास्तस्य सोमदेवस्येमे इति तदीया द्विरदेश्वरा गजेन्द्रा 'दन्ती दन्तावली हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । अतिमहतीमत्यधिकां श्रियं शोभां दधुः धारयामासुः । गिरिपक्षेऽअसंख्याका योधमण्डलयुक्ता, जलधी रण इव तद्विलोडने मन्दराचलवत्प्रचण्डा गिरय