पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/411

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा वह विक्रमाङ्गदेव झण्डे की फहराने वाले चोल देश के राजा राजिग की सेना में और अपने बड़े भाई सोमदेव की सेना में थोड़ी २ देर के लिये गया। जहाँ २ युद्धभूमि में वह गया वहाँ २ उसने शत्रुओं के यश को पी लिया अर्थात् उनको हराकर निस्तेज कर दिया । पददलितवृहत्कपालजाले करटिनि तस्य दुरापभाजनानाम्। सुभटरुधिरसीधुपानकेलिव्यघटत तत्र पिशाचसुन्दरीणाम् ॥८३॥ अष्टयः तत्र तस्य करटिनि पददलितवृहत्कपालजाले (सति) दुरापभाजनानां पिचाशसुन्दरीणां सुभटरुधिरसीधुपानकेलिः व्यघटत । ठयाख्य तत्र युद्धे तस्य विक्रमाडुदेवस्य करटिनि गजे पदैश्चरणेंदलितानि खण्डितानि बृहन्ति विशालानि बहूनीत्यर्थः। कपालानां कर्पराणां जालानि समूहा येन स तस्मिज्ञेवं भूते सति दुरापानि दुर्लभानि भाजनानि चषकापरपर्यायमद्यपात्राणि यासां तास्तासां पिशाचानां सुन्दर्यस्तासां पिशाचिनीनां सुभटानां सुयोधानां रुधिरस्य शोणितस्य शोणितरूपस्येत्यर्थ: । सीधोर्मद्यस्य पानकेलि: पानक्रीडा व्यघटत भङ्गमाप खण्डिता बभूवेत्यर्थः । हस्तिना कपालेषु चूणतेषु पात्राभावातू पिशाचिनीनां रुधिररूपमद्यपानक्रीडा समाप्तेति भावः । भाषा युद्ध में विक्रमाङ्कदेव के हाथी के पांव तले बहुत सी खोपड़ियों के चूर २ हो जाने पर, पानपात्रों को न प्राप्त करने वाली पिशाचिनियों की, योद्धाओं के रुधिर रूपी शराब की पीने की क्रीडा बन्द हो गई।