व्याख्य सुरभिः सुगन्धिः ‘सुरभिघ्राणतर्पणः' इत्यमरः ॥ यः कुशेशयस्य कमलस्य “सहस्रपत्रं कमलं शतपत्रं कुशेशयम्' इत्यमरः । कोशः कुड्मलं ‘कोशोऽस्त्री कुड्मले खङ्गपिधानेऽर्थौघदिव्ययोः' इत्यमरः । तस्मिन्या केलिः क्रीडा तत्र क्ता संलग्ना लक्ष्मी राज्यलक्ष्मीः, कमलं लक्ष्म्या निवासस्थानमिति हेतोस्तत्र सक्तेत्यर्थः । ध्रुवं निश्चयेनाऽरिषु शत्रुषु शत्रुशिरःस्वित्यर्थः । ” पदं स्थानं चरणं वा व्यधक्त कृतवती । यद्यस्मात्कारणान्मधुकराणां भ्रमराणां मालिका समूहस्तया भ्रमरश्रेण्येव नृपसुतो विक्रमाडूदेवस्तस्य करवाललेखा कृष्णवर्णा खङ्गरेखा तया चुम्ब्यते स्म प्रेम्णा परिचुम्बिता बभूव । यतो मधुकरमालिकेव कृष्णवर्णां खङ्गरेखा शत्रुशिरःसु पतति तस्मात् कुशेशयसक्ता लक्ष्मीरवश्यमेव `शत्रुशिरःसु पदं व्यधत्त । कमलाभावे मधुकरमालागमनासम्भवादिति भावः । अत्रोत्प्रेक्षालङ्कारः । 2eq सुगन्धयुक्त कमल की कली में क्रीड़ा करने में आसक्त लक्ष्मी अवश्यमेव शत्रुओं के मस्तकों पर जा बैठी थी। क्योंकि भ्रमर श्रेणी के समान काले रंग की विक्रमाडूदेव के तलवार की धार शत्रुओं के शिरों में विद्यमान लक्ष्मी का चुम्बन करती थी । अर्थात् शत्रुओं की गर्दन काटती थी । ग्रनुकृतसमधर्तेिपानलीला-चपककरालकपालगुतिमध्ये । करिदरानपरम्परा निपत्य श्रिपमतनोदुष्पदंशमूलकानाम् ॥८५॥ अन्वयः करिद्शनपरम्परा अनुकृतसमवर्तिपानलीला-चषककरालकपालशुक्तिमध्ये निपत्य 'उपदंशमलकानां श्रियम अतनोत ।
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/412
एतत् पृष्ठम् अपरिष्कृतम् अस्ति