पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/428

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा सूर्य अपने रथ के बुढ़े घोड़ों को बदल देने के लिये मानों श्रेष्ठ धोड़ों के उत्पत्ति स्थान उत्तरदिशा में अर्थात् काबुल में (काबुली घोड़े प्रसिद्ध हैं) प्रस्थित हुवा । अर्थात् सूर्य उत्तरायण होने लगे । अहो नु चैत्रं प्रति कापि भक्तिरकृत्रिमा केरलमारुतस्य । द्राधिष्ठमध्वानमसौ विलङ्घय सर्वत्र तस्यानुचरो यदासीत् ॥७॥ अन्वयः अहो नु केरलमारुतस्य चैत्रं प्रति अकृत्रिमा का अपि भक्तिः यत् "असौ द्राघिष्ठम् अध्वानं विलङ्घय सर्वत्र तस्य अनुचरः श्रासीत् । व्याख्या ‘अहो।” इत्याश्चयें ‘नु' इति वितकें । केरलमारुतस्य दक्षिणस्थकेरलदेश* वाहिनः पवनस्य वक्षिणानिलस्येत्यर्थः । चैत्रं चैत्रभासं प्रति वसन्तकालं प्रतीत्यर्थः । अकृत्रिमा स्वाभाविकी काप्यनिर्वचनीयाऽपूर्वेत्यर्थः । भक्तिरनुरागः । यद्यस्मात्कारणादसौ दक्षिणानिलो द्राघिष्ठमतिदीर्घमध्वानं मार्गं ‘अयनं वत्र्म मार्गाध्वपन्थानः पदवी सृतिः' इत्यमरः । विलङ्काय समतिक्रम्य सर्वत्र सर्वस्थाने · तस्य चैत्रमासस्य वसन्तस्य वाऽनुचरोऽनुगाम्यासीत् जातः । वसन्ते दक्षिणानिलः सर्वत्रैव वहतीति भावः । अत्र केरलमारुते सेवकव्यवहारसमारोपात् समासोक्तिरलङ्कारः । भाषा आश्चर्य की बात है कि केरल के वायु का अर्थात् दक्षिणानिल का चैत्र मास