पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/451

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

સજ્ઞાણભજ્ઞાતિષચવાણ-તાત્રાવ સારસ્વ સવારમsr; एको भुजस्तस्य लवङ्गवायु-रन्यः पिकस्त्रीकलपञ्चमोऽभूत् ॥३&॥ अन्वय: सलीलम् अङ्गीकृतसाम्राज्यभारस्य तस्य मधोः अभङ्गः एकः भुजः लवङ्गवायुः अन्यः पिकस्त्रीकलपञ्चमः अभूत् । व्याख्या लीलया विलासेन सहितं सलीलमङ्गीकृतः स्वीकृतः पञ्चबाणस्य कामस्य साम्राज्यभारोऽखिलराज्यशासनभारी येन स तस्य स्वीकृतकामसाम्राज्यभारस्य तस्य प्रसिद्धस्य मधोर्वसन्तस्याऽभङ्गोऽविकलो बलिष्ठ इत्यर्थः । एको भुजो बाहुर्लवङ्गवायुर्दक्षिणानिलोऽन्य इतरो बाहुः पिकानां कोकिलानां स्त्रियः कोकिलास्तासां कलः सुन्दरः पञ्चमः पञ्चमस्वरोऽभूत् ॥ एतेन वसन्तस्य कामसाम्राज्ये मन्त्रित्वं प्रतीयते । भाषा खेलवाड से ही कामदेव के साम्राज्य के समग्र कार्यों को करने का स्वीकार करने वाले उस वसन्त ऋतु का एक बलवान् हाथ दक्षिणानिल था और दूसरा हाथ कोयल का सुन्दर पञ्चम स्वर था । अर्थात् काम के राज्य में वसन्त ही प्रधान मंत्री था जो दक्षिणानिल तथा कोकिला के पञ्चम स्वर का प्रयोग कर उसका साम्राज्य चलाता था । राशीकृताः पुष्पपरागपुञ्जाः पदे पदे दक्षिणमारुतेन । मतस्य चैत्रद्विरदस्य कर्तुगामलूणहेतोरिव पांसुतल्पान् ॥४०॥