पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/476

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आप्नुवन्ति । व्याख्या मलयगिरिसमीरा मलयाचलानिलाः सिंहलद्वीपस्य 'सोलोन' इति ख्यातस्य कान्ताः स्त्रियस्तासां मुखान्याननानि तेषां परिचयः सम्पर्कस्तस्माल्लब्धः प्राप्तः स्फारो बहुलः कर्पूरस्य वासः सुगन्धो यैस्ते, द्रविडयुवतीनां चोलदेशाङ्गतानां दोलाकेलयः प्रेड्डाक्रीडास्तासु लोलन्तश्चलन्तो नितम्बा एव स्थलानि तैस्तत्संघट्टनै`रित्यर्थः । शिथिलितः शिथिलीकृतो वेगो जवो *वेगः प्रवाहजवयोरपि' इत्यमरः । येषां ते तथा सन्तः सेव्यतां ग्राह्यतामाप्नुवन्ति लभन्ते। मलयाचलानिला: सिंहलद्वीपनारीमुखसम्पर्कात् कर्तुरगन्धयुक्ताश्चोलदेशाङ्गनाना दोलाक्रीडासु लोलनितम्बसंघट्टनात् शिथिलीकृतवेगास्सन्तश्चन्दनजन्यं शैत्यं कर्पूरजन्यं सुगन्धं नितम्बसंघट्टनजन्यं मन्दत्वञ्च वायूनां शीतलमन्दसुगन्धेति गुणत्रयं धारयन्तः सेव्या भवन्तीति भावः ॥ मालिनीच्छन्दः । उदात्तालङ्कारः ॥ भाषा मलयाचल के पवन, सीलोन की अङ्गानाओं के मुखों के सम्पर्क से कपूर की सुगन्ध की धारण कर और चोलदेश की कामिनियों के रसयुक्त झूला झूलने में चञ्चल नितम्बस्थलों से टकरा कर मन्दगति होने से सेवनीय हो गये थे । अर्थात् दक्षिणानिल, चन्दन का शैत्य, कर्पूर का सुगन्ध और नितम्बों की टक्कर से मन्द गति, एवं शीतल, मन्द व सुगन्ध इन तीनों वायुओं के गुणों से युक्त होने से सेवनीय हो गये थे। पानीयं नालिकेरीफलकुहरकुहूत्कारि कझोलयन्तः कावेरीतीरतालदुमभरितसुराभाण्डभाड्रारचण्डाः ॥ उन्मीलन्नीलमोचापरिचयशिशिरा वान्त्यमी द्रविडीनां