पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/479

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उन्माद्यन्तो मवं प्रापिता मधुपा भ्रमरा येन स तेन पुष्पाणां कुसुमानां मधु रसस्तेन मकरन्देन केलीभुवः क्रीडास्थानानि पङ्किलाः कर्दमसंयुक्ता जाताः । सर्वे पादपा वृक्षा: कुसुमानां पुष्पाणां प्राग्भारतो बाहुल्यातद्धारात् भङ्ग:स्य पतनस्य त्रुटनस्येत्यर्थः भयं भीतिं दिशन्ति प्रकटयन्ति । सम्प्रत्यधुना चैत्रेण वसन्तेन लक्ष्येष्वलक्ष्येषु च लक्षेष्वलक्षेषु च निर्विचारमित्यर्थ: । बाणमोक्षे शरसन्धाने रसिकः समासक्तः कामोऽस्त्राणां शस्त्राणां परम्परा समूहस्तस्या व्ययविधौ समुत्सर्जनेऽविचार्य प्रयोगकरणे इत्यर्थः । दैन्यं दीनतां निरुत्साहमितिभावः । परित्याजितः परिहापितः । अगणितपुष्पास्त्राणा समर्पणादस्त्रविषयर्क कामस्य दैन्यं दूरीकृतमिति भावः । शार्दूलविक्रीडितच्छन्दः । भाषा भौरों को मदोन्मत करने वाले मकरन्द से कीड़ास्थलों में कीचड़ हो गया है। अर्थात् क्रीडास्थलों में अत्यधिक मकरन्द चूआ है। सभी वृक्ष अत्यधिक फूलों के बोझ से टूट जाने का भय सूचित करते हैं। इस समय निशाने का विचार न कर यथेच्छ बाण छोड़ने में आसक्त कामदेव की बाणों के अधिक खर्च अर्थात् समाप्त हो जाने की दीनता को वसन्त ने दूर कर दिया है । अर्थात् वसन्त में अत्यधिक फूलों के होने से, पुष्पसायक कामदेव को, बिना बिचारे पुष्पबाणों का प्रयोग करने की कोई कमी नहीं है। नीता नृतन्यवनप्रणयिना चैत्रेण चित्रां लिपिं हर्षाद्वर्षेति का न काननमही पुष्पैः कटाक्षैरिव । दोलारूढ्पुरन्धिपीनजघनप्राग्भारमाधुन्वतः किं मानद्रुमभञ्जनाय गहनं लङ्कानिलस्याधुना ॥७४॥