पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१०१

पुटमेतत् सुपुष्टितम्
प्रथमोऽङ्कः ।

सर्वभूतगुहाशयः । सर्वव्यापी स भगवान् तस्मात्सर्वगतः शिवः” इत्यादि श्रुतिवाक्यैः प्रमाणितं महेश्वरस्य सर्वगतत्वम् । ईश्वरत्वं नाम यथाह भगवान् पतञ्जलिः "क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः, तत्र निरतिशयं सर्वज्ञबीजम् स एव पूर्वेषामपि गुरुः कालेनानवच्छेदात् ।” अनेनेश्वरपदेन शिवस्य सत्ता कर्मविपाकादिनिरपेक्षा वर्तत इति सूचितम् । ईश्वरस्तु "ईष्टे इतीश्वरः" "स्थेशभास" (३।२।१७५) इति सूत्रेण वरच्प्रत्ययः । अथवा अश्नुते इतीश्वरः, अश्नोतेः औणादिको वरट्, उपधाया ईत्वं च, अश्नुते सर्वत्र व्यापकतया तिष्ठतीति ईश्वरः । अन्तरिति यथा दहरोपासनायाम्-“अथ यदिदं अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः तस्मिन्यदन्तम् तदन्वेष्टव्यं यद्वावजिज्ञासितव्यम्" इत्थमुपनिपत्सु ईश्वरस्य अन्तःस्थलं प्रसिद्धम् । मोक्तुमिच्छा मुमुक्षा । "अविद्यानिवृत्तिरेव मोक्षः” इति श्रीमच्छङ्कराचार्यभगवत्पादाः, स चात्यन्तिकदुःखनिवृत्तिसहकृतपरमानन्दप्राप्तिरूपः । अस्माकं ज्ञानावरणकर्त्री इयमविद्या नश्यतादिति उत्कटाकाङ्क्षिणो जनाः उच्चकोटिस्थाः मुमुक्षवस्तैरीश्वरो ध्यायत इत्यर्थः । प्राणोऽपानः समानश्चोदानव्यानाविति पञ्च शरीरान्तःसञ्चारिणो वायवः । तान् निरुद्ध्य यतयो ध्यायन्ते इति । स्थाणुरिति “व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः" इत्यमरः । स्थाणुपदस्य शिवे प्रवृत्तिनिमित्तत्वं यथा पुराणेषु “स्थाणुवन्निश्चलो यस्मात् स्थितः स्थाणुरतः स्मृतः" । "सर्ववैकारिकलये स्थाणुस्तिष्टति येन सः” इति निरुक्ताच्च । स्थिरभक्तियोगेनेति स्थिरा अव्यभिचारिणी विषयादिभिरुनुच्छेद्या । भक्तिर्नाम यथाहुः भगवन्तो रामानुजाचार्यचरणाः “तैलधारावदविच्छिन्नस्मृति-सन्तानरूपा भक्तिः”; अथवा "आराध्यत्वेन ज्ञानं भक्तिः" इति उदयनाचार्याः, “सा त्वस्मिन् परमप्रेमरूपाऽमृतस्वरूपा चेति" देवर्षिर्नारदः । “योगश्चित्तवृत्तिनिरोधः" इति भगवान् पतञ्जलिः । शिवस्य भक्तियोगलभ्यत्वं श्वेताश्वतरे "भावग्राह्यमनीडाख्यं भावाभावकरं शिवम्" इति । निःश्रेयसायेति, “मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृत"मित्यमरः । अत्र "तुमर्थाच्चेति” (२।३।१५) चतुर्थी-मोक्षं ददातु इत्यर्थः। अत्र चतुर्थ्या निमित्तत्वमर्थः मोक्षनिमित्तं भवतु इत्यर्थः ॥ इति विवेचनम् ।

 कविकुलतिलकेन तत्रभवता कालिदासेनानेन मङ्गलगानेन चिकीर्षितस्य काव्यस्य वस्तु अपि व्यक्तीकृतम् । प्रथमचरणे भगवतः वेदान्तेषु एकपुरुषवप्रतिपादनेन अस्य त्रोटकस्य नायकोऽपि इतिहासादिषु पुरुषेषु एक एव असाधारणोऽस्तीति गम्यते । तथा च यथा भगवतः सर्वव्यापित्वमुक्तं तथैव तस्य पुरूरवसः दयादाक्षिण्यादिगुणवत्त्वेन अलौकिकेन च पराक्रमेण धवलितदिगन्तकीर्त्या च सर्वव्यापकत्वं प्रदर्शितम् । भगवतः ऐश्वर्यप्रदर्शनेन नायकस्यापि विलक्षणैश्वर्यशालित्वेन राजपदभाजनत्वं यथार्थमेवेति सूचितम् । यथा शिवः संसारान्मुमुक्षुभिः मृग्यते तथैव विक्रमः सुरारीणामाक्रमणान्मुमुक्षुभिरप्सरसां वृन्दैः प्राणादिवायुसंचारस्याप्यपेक्षामकुर्वद्भिर्बहिरन्वेषितः, तथाच नायिकयान्त-