पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११३

पुटमेतत् सुपुष्टितम्
१५
प्रथमोऽङ्कः

 रम्भा---अवि णाम सो राएसी उद्धरदि णो हिअअसल्लम् ?

[अपि नाम स राजर्षिः उद्धरिष्यति नो हृदयशल्यम् ? ]

 मेनका-सहि, मा दे संसओ भोदु । [सखि मा ते संशयो भवतु।]

 रम्भा -- णं दुज्जआ दाणवा । ननु दुर्जया दानवाः ।]

 मेनका -- उवट्टिदसम्पराओ महिन्दो वि मझमलोआदो सबहुमाणं आणाविअ तं एव्व विबुधविज्ञआअ सेणामुहे णिओजेदि । [उपस्थितसम्परायो महेन्द्रोऽपि मध्यमलोकतः सबहुमानमानाय्य तमेव विबुधविजयाय सेनामुखे नियुङ्क्ते ।]

 रम्भा - सव्वहा विअई भोदु । [ सर्वथा विजयी भवतु ।]

 मेनका — (क्षणमात्रं स्थित्वा ) हला ! समस्सस समस्सस [हला! समाश्वसिहि समाश्वसिहि ।] एस उल्लसिदहरिणकेदणो तस्स राएसिणो सोमदत्तोरहो दीसदी; ण एसो अकिदत्थो पडिणिउत्तिस्सदि त्ति तक्केमि । [एष उल्लसितहरिणकेतनस्तस्य राजर्षेः सोमदत्तो रथो दृश्यते; नैषोऽकृतार्थः प्रतिनिवर्तिष्यत इति तर्कयामि ।]

(निमित्तं सूचयित्वा अवलोकयन्त्यः स्थिताः ।)


कूटशिखरे नाट्येन विलासेन अधिरोहन्ति उपरि गच्छन्ति सर्वा अप्सरसः ।

 रम्भा - अपि नाम इति प्रश्ने - किं स राजर्षिः नः अस्माकं हृदयशल्यं हृदयकण्टकं सखीहरणजं दुःखमुद्धरिष्यति परिहरिष्यति ? हृदये शल्यमिव हृदयशल्यं दुःखमित्युपमा ।

 मेनका - सखि! अस्मिन् ते संशयः शङ्का मा भवतु-मा शङ्कखेत्यर्थः । अवश्यमेव उद्धरिष्यतीत्यर्थः ।

 रम्भा - स्वसंशयकारणं कथयति- दानवाः दुःखेन क्लेशेन जेतुं योग्या भवन्तीति दुर्जयाः खलु ।

 मेनका - उपस्थितः आगतः सम्परायो युद्धं यं स महेन्द्रोऽपि तमेव राजर्षि मध्यमलोकात् सबहुमानं आदरपूर्वकमानाय्य समाहूय विबुधानां सुराणां विजयाय सेनामुखे सेनापतिकार्ये नियुङ्क्ते नियोजयति । अनेन राज्ञः इन्द्रस्यापि विदितपराक्रमत्वं सख्यं च व्यज्यते।

 रम्भा - सर्वथेति अस्य महाराजस्य विजयः सर्वथा साकल्येन भवतु।

 मेनका - क्षणमात्रं किञ्चित्कालं स्थित्वा तूष्णीभूत्वा अवदत् । हला प्रियसखि ! समाश्वसिहि विश्वस्ता भव । श्वसतेः लोटि मध्यमपुरुषैकवचनान्तं क्रिया-