पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/११९

पुटमेतत् सुपुष्टितम्
२१
प्रथमोऽङ्कः

 वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो
  निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ १० ॥


कुतः-अस्याः शङ्कायाः कारणमाह--अस्या इति-अस्या उर्वश्याः सर्गविधौ उत्पादनकर्मणि प्रजापतिर्वेधाः साक्षात्कान्तिप्रदः चन्द्र एवाभूत् किम्, यदेतादृशो रूपस्य संभवः । नु इति सन्देहे । अथवा यदि चन्द्रो न स्यात्प्रजापतित्वेन तदा स्वयं मदनः कामः एव स्रष्टाऽभूत् यः शृङ्गारैकरसः शृङ्गारे नितान्तं निमग्न एवास्ते । अथवा यद्ययमपि नाभवत्तदा मासः पुष्पाकरः वसन्तः स्यात् । स ऋषिः कथं नेमां निर्मितवानित्याह--स पुराणो वृद्धो मुनिः मनोहरमिदमीदृशं रूपं निर्मातुं कथं नु प्रभवेत् कथं समर्थः स्यात् यतः स तु रात्रिन्दिवं वेदानां नीरसानामभ्यासेन वारं वारं परिशीलनेनावलोकनेन वा जडतां सहृदयतायां मन्दतां प्राप्तः, परं च विषयेभ्यः भोग्यपदार्थेभ्यः व्यावृत्तं क्षीणं कौतूहलं इच्छा उत्साहो वा यस्य सः एतादृशोऽयं नीरसः पुरुषः कथं विलक्षणसौन्दर्यसन्दानितामिमां निर्मातुं पारयेत्, न कदापीत्यर्थः । तस्मान्नेयं मुनिसम्भवा भवितुमर्हतीति भावः ॥

 पद्येऽस्मिन् प्रतिपदं वैलक्षण्यमस्तीत्यवधेयम्--यथा--अत्र शशीन्दुप्रभृतिविविधचन्द्रत्वप्रतिपादकशब्दान् विवर्ज्य कथं वा कवेश्चन्द्रपदे एव बहुमानः इति विचारणायां चन्द्रेणात्यन्ताह्लादजनकत्वमिष्यते । 'चदि आह्लादने' तस्मात् रक् प्रत्ययान्ते चन्द्रपदे एव तादृशार्थबोधनसामर्थ्यात् । पुनश्च चन्द्रस्यानन्ददेवतात्वं प्रसिद्धं उपनिषत्स्वपि, काव्येष्वपि "ल्हादनात् चन्द्रमित्याहू राजा प्रकृतिरञ्जनात्" इति । तथा च न केवलं चन्द्रोऽयं आह्लादक एव किन्तु कान्तिप्रदोऽपि--अत्रापि शोभासुषमादिपदानपेक्षं कान्तिपदप्रदानम्--'काम्यते इति क्तिन्' तेन कान्तिः अत्यन्तमभीप्सितः कमनीयगतो धर्मविशेषः यद्विभूषितविरहे हृदयं ताम्यतीति । तां कान्तिं नाल्पतया ददातीति कान्तिप्रदः । पुनरपि कामकन्दर्पादिपदानि विहाय कवेर्मतिर्मदनपदचुम्बिनी "मदयतीति मदनः" इति व्युत्पत्त्या विशेषतया लोकान् विमोहयितुं समर्थः इति विशेषार्थप्रतिपिपादयिषयाऽभवत् । सोऽपि मदनः शृङ्गारैकरसः 'शृङ्गं प्राधान्यं प्राथम्यमियत्ति' इत्यण्णन्तव्युत्पत्त्या सर्वेषु रसेषु रम्यतमत्वं प्राधान्यञ्च व्यञ्जयन् मदनस्य रसराज एव एकः अन्यनिवृत्तिपरकः रसः रागः यस्येति आत्यन्तिकरसिकत्वं सहृदयत्वं च सूचितम् । सोऽपि स्वयं स्वहस्तकलाकौशलेन निर्मितवानिमां न स्वसहायकैरिति । अथवा मधुवसन्तादिपदव्यावर्तनपूर्वकं पुष्पाकरपदग्रहणेन 'पुष्पाणामाकरः' पुष्पाकरः इत्यनेन तस्य परममार्दवं, विविधरङ्गापूर्वसौरभादिज्ञानवत्त्वं वसन्ते द्योतितम्, तथा चास्याः कुसुमसुकुमारत्वं पद्मिनीसदृशमदयदमन्दामोदवत्त्वं च व्यक्तीकृतम् । वेदाभ्यासजडपदस्वीकारेण विधातुस्तस्यात्यन्तिकवैमुख्यं प्रदर्शितं रसिकतायाम् । यतः 'विन्दति धर्ममात्मज्ञानं येन स वेदः' । आत्मज्ञानाधिकारिणां साधनचतुष्टयेषु पूर्वमिहामुत्रफलभोगविरागः इष्यते तथा चोपदिश्यते गीतायां यत् 'ये हि संस्पर्शजा