पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१२५

पुटमेतत् सुपुष्टितम्
२७
प्रथमोऽङ्कः

 मेनका-(निर्वर्ण्य ) हला! दुवे वि णो एत्थ प्पिआ उवगदा । इअं पच्चाणीदा पिअसही, अअं च अपरिक्खदसरीरो राएसी दीसदी । [हला ! द्वे अपि नोऽत्र प्रिये उपनते, इयं प्रत्यानीता प्रियसखी, अयञ्चापरिक्षतशरीरो राजर्षिर्दृश्यते ।]

 सहजन्या-सहि ! जुत्तं भणासि दुज्जओ दाणओ त्ति । [सखि ! युक्तं भणसि दुर्जयो दानवः इति ।]

 राजा-सूत, इदं तच्छैलशिखरम् । अवतारय रथम् ।

 सूतः-यदाज्ञापयत्यायुष्मान् । (इति तथा करोति ।)

 (उर्वशी रथावतारक्षोभं नाटयन्ती सत्रासं राजानमवलन्बते ।)

 राजा-(स्वगतम्) हन्त ! सफलो मे विषयावतार: -

  यदिदं रथसंक्षोभादङ्गेनाङ्गं ममायतेक्षणया ।
  स्पृष्टं सरोमकण्टकमङ्कुरितं मनसिजेनेव ॥ १३ ॥


 मेनका-निर्वर्ण्य उर्वशीसहितं समुपस्थितं राजानं दृष्ट्वा । हला द्वे अपि नः अत्र प्रिये उपनते, इदं कार्यद्वयमेव नः अस्माकं प्रियमेवाभूत् । के ते कार्य इत्याह-इयं प्रियसखी प्रत्यानीता यथापूर्वं अक्षता प्राप्ता, तथा च अयं राजर्षिरपि अपरिक्षतशरीरः सुरक्षितः अच्छिन्नगात्र एवं प्रतिनिवृत्तः इत्युभयमेव नः प्रियं समुत्पन्नम् । अनेनाप्सरसां कृतज्ञत्वं गम्यते यदेताः तासां रक्षितुरपि देहचिन्तां कुर्वन्तीति ।

 सहजन्या-सखि ! युक्तं समीचीनं भणसि कथयसि यत् दुर्जयो दुःखेन जेतुं शक्यः दानव इति ।

 राजा-सूत हे सारथे ! इदं पुरतः तच्छैलशिखरम् हेमकूटशिखरम् , अतः अवतारय रथम् ।

 सूतः-यदाज्ञापयति आयुष्मान् चिरञ्जीवी देवः तथैवोचितम् । इत्युक्त्वा रथमवतारयति । सूतस्तु विप्रः सन् उत्तमपात्रम् , अतः संस्कृतेन वक्ति राजानं च सदा आयुष्मन्निति सम्बोधयति ।

 (उर्वशी रथस्यावतारेण अधोगमनेन अकस्माद्दोलायिता क्षोभं रथोपघातं नाटयन्ती सविलासं प्रदर्शयन्ती सत्रासं सभयम् राजानमवलम्बते हस्तेन धारयति ।)

 राजा-(स्वगतम्-आत्मन्येव ब्रूते) हन्त इति हर्षे । मे मम विषयावतारः विषयित्वेनेह जगति स्थितिर्नरजन्म वा सफल एवाभूत् । कुतः-यदिति-यत् रथसंक्षोभात् निम्नोन्नतभूप्रदेशेषु रथोपघातात् आयतेक्षणया दीर्घनयनया अनया स्वीयेन अङ्गेन गात्रैः मम अङ्गम् मनसिजेन कामेन सरोमकण्टकमङ्कुरितमिव