उर्वशी-हला! किं वि परदो ओसर । [हला ! किमपि परतः अपसर ।]
चित्रलेखा-णाहं सक्केमि । [नाहं शक्नोमि ।]
रम्भा-एत्थ पिअआरिणं संभावेम्ह राएसिं। [अत्र प्रियकारिणं सम्भावयामो राजर्षिम् ।] (सर्वा उपसर्पन्ति ।)
राजा-सूत! उपश्लेषय रथम्-
यावत्पुनरियं सुभ्रूरुत्सुकाभिः समुत्सुका ।
सखीभिर्याति सम्पर्कं लताभिः श्रीरिवार्तवी ॥ १४ ॥
आनन्दातिशयात् पुलकायमानमिव स्पृष्टं हस्तेन धृतम् । यदनेन तदीयाङ्गेन ममाङ्गस्पर्शः सञ्जात इति कृतार्थ मे जन्मेत्यर्थः । इदं प्रेम्णः द्वितीयं चिह्नमपरा चावस्थाऽत्र । अत्र पुलकानि कामेनेवाङ्कुरितानीति सम्भावनादुत्प्रेक्षालङ्कारः। अनेन मनसि मनसिजेन स्वसत्ता स्थापितेति व्यज्यते। अत्र नायकगतः पूर्वरागः । नायिकागतः पूर्वरागः 'उपकृतमिति' स्थले (पृ. २०) पूर्वमेवाभिव्यक्तः । अत्र नाटकीयकार्यस्य आरम्भाख्या प्रथमावस्था, यदुक्तं "भवेदारम्भ औत्सुक्यं यन्मुख्यफलसिद्धये।" अपि चात्र 'अस्याः सर्गविधा' विति पद्ये (१-१०) विक्रमोर्वश्योः समागमजन्यानुरागबीजस्योपक्षेपात् प्रवृत्तस्य मुखसन्धेः प्राप्तिर्नामाङ्गम् "प्राप्तिः सुखागमः" इति लक्षणात् । मुखसन्धिलक्षणन्तु-"यत्र बीजसमुत्पत्तिर्नानार्थरससम्भवा । प्रारम्भेण समायुक्ता तन्मुखं परिकीर्तितम् ॥" मनसिजेत्यत्रालुक्समासः । इयं चार्याजातिः॥ १३ ॥
उर्वशी-सखि ! चित्रलेखे । किमपि किञ्चित्स्वल्पमपि परतः दूरमपसर । किञ्चित्स्थलमधिकं रथेऽस्मिन् मह्यं देहीत्यर्थः । नायकाङ्गस्पर्शमुग्धा नायिका लज्जां गमयति । अत्र व्रीडा नाम भावो व्यज्यते, यल्लक्षणं तु-"चेतोनिमीलनं व्रीडा"॥
चित्रलेखा-नाहं शक्नोमि दूरमपसर्तुं नास्त्यवकाशः । उपहासोऽयम् ।
रम्भा-अत्र प्रियकारिणं अस्माकमुपकर्तारं राजर्षिम् विक्रमं सम्भावयामः पश्यामो धन्यवादांश्च तस्मै समर्पयामः ।
(सर्वाः अप्सरसो देवाङ्गना रम्भादयः उपसर्पन्ति राज्ञः समीपं गच्छन्ति ।)
राजा-सूत सारथे ! उपश्लेषय स्थापय रथम् । यावदिति । यावत् इत्यस्य चूर्णकस्थवाक्येनान्वयः। यावत् यावता कालेन समुत्सुका सखीजनं द्रष्टुमुत्कण्ठिता सुभ्रूः सुन्दरीयं उत्सुकाभिरेनां प्रेक्षितुं काङ्क्षमाणाभिः सखीभिः सम्पर्कं सम्बन्धं याति तावद्रथं स्थापयेति उपरिष्ठेन वाक्येनान्वेति । यथा आर्तवी ऋतुसम्बन्धिनी श्रीः शोभा लताभिः सह सम्पर्कमुपैति तथैव । यथा ऋतुसम्ब-