( सूतो रथं स्थापयति ।)
अप्सरस:-दिट्ठिआ महाराओ विजएण वड्ढदि । [दिष्ट्या महाराजो विजयेन वर्धते ।]
राजा-भवत्यश्च सखीसमागमेन ।
उर्वशी-(चित्रलेखादत्तहस्तावलम्बा रथादवतीर्य) हला! अधिअं परिस्सजह । ण क्खु मे आसी आसासो जहा पुणो वि सहीअणं पेक्खिस्सं त्ति । [हला ! अधिकं परिष्वजथ, न खलु मे आसीदाश्वासो यथा पुनरपि सखीजनं प्रेक्षिष्ये इति ।]
(सख्यः परिष्वजन्ते ।)
मेनका-(साशंसम्) सव्वहा कप्पसदं महाराओ पुहविं पालअन्तो होदु। [सर्वथा कल्पशतं महाराजः पृथ्वीं पालयन् भवतु ।]
न्धिनी शोभा लताभिः सह सम्बन्धं प्राप्नोति तथैव यावत्कालं सखीजनं प्रेक्षितुं उत्कण्ठितेयं सुन्दरी चिन्ताग्रस्ताभिः सखीभिः सह मिलति तावत्कालं रथं स्थापयेत्यर्थः । सुष्ठु भ्रुवौ यस्याः सा सुभ्रूः सुन्दरभ्रुकुटीवती इत्यर्थः । ऋतोरियमार्तवी । अत्र च उपमालङ्कृतिः । ततश्च तस्याः सखीजनस्य लतासदृशाङ्गयष्टित्वं तासु च तस्याः श्रिय इव श्रेष्ठत्वम् व्यक्तम् । अनुष्टुब् वृत्तम् ॥ १४ ॥
सूतः-रथं स्थापयति-यथास्थानं नीत्वा स्थगयति ।
अप्सरसः-दिष्ट्या इति आनन्दे । हेमकूटस्थिताः रम्भादयोऽप्सरसः प्रियसखीमुर्वशीं प्रत्यानीतां प्रेक्ष्य सानन्दमाहुः-महानयमुत्सवो यन्महाराजो विक्रमः विजयेन वर्धते विजयी अभवदिति । इति ताः स्वीयां कृतज्ञतां प्रकाशयन्ति तञ्च धन्यं वदन्ति ।
राजा-भवत्यो यूयं तु युष्माकं सखीसमागमेन सख्या सह पुनः सम्मेलनेन वर्धन्ते इति शेषः । इयमभिनन्दनस्य परिपाटी ।
उर्वशी-(चित्रलेखया दत्तः हस्तस्यावलम्बो धारणं यस्यै सा चित्रलेखोद्धृता उर्वशी रथादवतीर्य सखीजनमाह) हला सख्यः ! अधिकं परिष्वजथ गाढमालिङ्ग्यताम् यतः मे ईदृशः आश्वासो विश्वासः निश्चयो नासीद् यत् पुनरपि सखीजनं प्रेक्षिष्ये मिलिष्यामि । अहं जीविष्यामीति नासीद् मम विश्रम्भः ।
(ततः सख्यः परिष्वजन्ते श्लिष्यन्ति प्रियसखीमुर्वशीमित्यर्थः । )
मेनका-( मङ्गलं शंसन्तीति साशंसम् ) कल्पानां शतम् कल्पशतं तावत्कालपर्यन्तं महाराजो भवान् पृथिवीमेवमेव न्यायेन पालयन् भवतु पालयतु चिरशासको भवान् भवत्वित्याशीः, चिरराजलक्ष्मीको भूयादित्यर्थः । कल्पस्तावद्ब्रह्मणः एकं दिनम् यतः "मासेन स्यादहोरात्रः पैत्रो वर्षेण दैवतः । दैवे युगसहस्रे द्वे