पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१२९

पुटमेतत् सुपुष्टितम्
३१
प्रथमोऽङ्कः

 राजा-अये गन्धर्वराजः ! (रथादवतीर्य) स्वागतं प्रियसुहृदे ।

(परस्परं हस्तौ स्पृशतः।)

 चित्ररथ :-वयस्य ! केशिना हृतामुर्वशीं नारदादुपश्रुत्य प्रत्याहरणार्थमस्याः शतक्रतुना गन्धर्वसेना समादिष्टा । ततो वयमन्तरा चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा त्वामिहस्थमुपागताः । स भवान् इमां पुरस्कृत्य सहास्माभिः मघवन्तं द्रष्टुमर्हति । महत्खलु तत्रभवतो मघोनः प्रियमनुष्ठितं भवता । पश्य-

पुरा नारायणेनेयमतिसृष्टा मरुत्वते । दैत्यहस्तादपाच्छिद्य सुहृदा सम्प्रति त्वया ॥ १६ ॥


 राजा-अये गन्धर्वराजः इति चित्ररथं प्रत्यभिज्ञाय तं सत्कर्तुं रथादवतरति । रथादवतीर्याधः एत्य-अत्र मित्रत्वेऽपि चित्ररथानपेक्षतया गन्धर्वराजपदप्रदानेन तस्य च स्वस्य राजत्वेन साम्यं दर्शितम् , तेन तस्य रथावतरणं योग्यमेवाचारदृष्ट्या । गन्धर्वराजेत्यत्र “राजाहःसखिभ्यष्टच्” इति सूत्रेण टच्प्रत्ययः । प्रियसुहृदे भवते स्वागतम् । प्रेमातिशयेनाचारपद्धत्या वा परस्परं हस्तौ स्पृशतः हस्तग्रहणं कुर्वतः । स्वागतचिह्नमेतत्-आलेष्वपि शिष्टाचारोऽयम् ।

 चित्ररथ:-वयस्य प्रियसुहृद् ! केशिना तदाख्येन दानवेन हृतां बलादपहृतामुर्वशीं नारदाद् महामुनेरुपश्रुत्य ज्ञात्वा अस्या उर्वश्याः प्रत्याहरणार्थं तस्माद्दैत्यान् निर्जित्य पुनरानयनाय शतक्रतुनेन्द्रेण गन्धर्वाणां तदाख्यानां देवानां सेना समादिष्टा आज्ञप्ता । अधिगम्येममुदन्तं नारदाद्दैत्यनाशाय तस्या रक्षणाय च गन्धर्वसेना प्रेषिताऽऽसीदित्यर्थः । अन्तरा मध्ये एव मार्गे ततः प्रस्थानानन्तरं वयञ्चारणेभ्यो बन्दिभ्यस्त्वदीयं तव जयोदाहरणं केशिजयवर्णनं श्रुत्वा समाकर्ण्य इहस्थं हेमकूटशिखरे वर्तमानं त्वामुपागताः समायाताः। मार्गान्तराले निशम्य भवद्भिः कृतं तस्याः रक्षणं, वयं त्वत्समीपं समायाता इत्यर्थः। स एतादृशो विजयी भवान् इमामुर्वशीं पुरस्कृत्य गृहीत्वा अस्माभिः गन्धर्वैः सह मघवन्तमिन्द्रं द्रष्टुं मिलितुमर्हसि । त्वया एनां गृहीत्वा महेन्द्रदर्शनं कर्तव्यमिति भावः। इन्द्रदर्शनकारणमाह-- यतो भवता तत्रभवतः पूज्यस्य मघोनः देवराजस्य महत् प्रियं हितमनुष्ठितम् कृतम् । महेन्द्रमुपकृतवानसीति सारम् । पश्य विचारय तावत् । पुरेति-पुरा प्राचीनकाले नारायणेनेयमुर्वशी मरुत्वते इन्द्राय प्रदत्ता । आत्मनः उरुप्रदेशात्समुत्पाद्येमामुर्वशीं नारायणः इन्द्रायाप्सरसां मध्ये गणयितुं तां प्रादात् । सम्प्रति अस्मिन्समये सुहृदा परमोपकारिणा त्वया दैत्यानां हस्ताद् बन्धनादपाच्छिद्य मोचयित्वा इन्द्राय इयं प्रदीयते । इति त्वया बहु उपकृतम् । पुरा नारायणेनातिसृष्टा चेदानीं त्वं समर्पयसीत्यर्थप्रदानेन पुरूरवसो नारायणतुल्यत्वं सूचितम् । सोऽपि नारायणः कीदृशः "नराणां नित्यानामयनमिति नारायणपदम्" इति । अनुष्टुब्वृत्तम् ॥१६॥