पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१३

पुटमेतत् सुपुष्टितम्

भूर्जपत्रमपनेतुं किं वा ते प्रयोजनमिति बहुशश्चाधिक्षिपति । तन्कारणं बहुपीडितं राजानं विलोक्य सहसोपसृत्य देवी अलमावेगेनेदं भूर्जपत्रमिति आचक्षाणा स्वमात्मानं प्रकाश्य राजानं ह्रेपयति । राजा च समम्भ्रमं तां स्वागतेनाभिनन्दयति। देवी च क्रोधेद्धचक्षुषी दुरागतं न तु स्वागतमिति भर्त्सयति । राजा च जनान्तिकं वयस्यं प्रतिविधानं पृच्छति । तदप्राप्नुवन् राजादौ मन्त्रपत्रं मार्गये नेदमिति आत्मानं गोपायति । पश्चाच्च स्वापराधमनुमनुते । देवी च नायं भवतोऽपराधः ममैवायं यदहमत्र स्थितास्मीति कोपं रूपयन्ती प्रस्थिता । राजा च चाटुकारेण तां प्रसादयितुं यतते । सा तु प्रावृट्काले नदीवाप्रसन्ना गता। तां दृष्ट्वा नेदमुपपन्नमिति राजा तर्कयते । मध्याह्नवेलां च दृष्ट्वा दिनार्थसमयं वर्णयत्ति यतो मयूरः उष्णातः सन् तरोर्मूलालवाले तिष्टति, भ्रमराश्च कर्णिकारमुकुलन्यधिशेरते, कारण्डवश्च तीरनलिनीमासेवते , पञ्जरशुकश्च क्लान्तो जलं याचते इति बहूनि निदाघकालसूचकानि चिह्नानि विलोक्य माध्याह्नवेला सम्प्राप्तेति जानन् स्वगृहं विरामाय गन्तुमनाः सवयस्यो महाराजो रङ्गभूमितो निष्क्रान्तः ।

॥ इति द्वितीयोऽङ्कः॥


॥ तृतीयोऽङ्कः॥

 अत्र प्रथमतः प्रविशतो गालवपेलवाख्यौ भरतशिष्यौ । तयोः मालवः पेलवं पृच्छति यतस्त्वं महेन्द्रमन्दिरे स्थापितस्तत्रभवता गुरुणा कथय देवपरिषदाराधितगुरोः प्रयोगेण न वेति । पेलवश्च सरस्वतीकृतललितपदावलीबन्धलेखे लक्ष्मीस्वयंवरे उर्वशी लक्ष्मीभूमिकां धारयन्ती वारुणीभूमिकया विलसन्त्या मेनकया सकेशवलोकपालमण्डितायामस्यां सभायां उपस्थितेषु कतमस्मिंस्ते हृदयाभिनिवेशः इति पृष्टा सती पुरुषोत्तमे इति कथयितव्ये प्रियसखीमाख्यदनाख्ययेयमपि प्रख्यातख्यातौ पुरूरवसाख्ये भूभर्तरि आत्मनः सख्यम् । ततश्च तस्यै क्रोधाग्निना दंदह्यमानशुष्कशमीवृक्षचेतास्तापसो मुनिस्तां ममोपदेशस्त्वयालङ्घितः अतो नार्हसि दिव्यामवस्थामिति शशाप। किन्तु पुरन्दरो दरं दर्शितदयाभावः प्रेक्ष्य क्रीडावनतवदनामुर्वशीं पञ्चबाणबाणविद्धदेहां स्वीयरणसहायस्य राजर्षेः पुरूरवसः कारणेन "यावत्स परिदृष्टसन्तानो भवेत्तावत्त्वं यथाकामं तं सेवस्वेति” शापस्यानुकूलतां विदधानः परमनुजग्राह । एवमुर्वशीसमागमसूचनम् भावि प्रदर्श्य भरतशिष्यौ सूर्यमवलोक्य कथाप्रसङ्गेनापराद्धाभिषेकवेला तदुपाध्यायस्य पार्श्ववर्तिनौ भवाव इति विज्ञाप्य पूर्वापरकथांशं सम्यग्योजयित्वा निष्क्रान्तौ।

 ततश्च रङ्गभुमिम् विशन् वृद्धकञ्चुकी अस्यां जरदवस्थायां कार्यभारोद्वहनेऽक्षमः परिश्रान्तो विश्राममलभमानः सेवां कारापरिणतिरिति निन्दन् स्त्रीषु कष्टोऽधिकारः इति खेदं प्रकाशयमानः औशीनर्या निपुणिकामुखेन व्रतसम्पादनाय पूर्वं याचितं महाराजं तदेव तस्या वचनेन विज्ञापयितुकामः सन् राजगृहे दिवसावसानवेलां रमणीयां वर्णयन् नेपथ्याभिमुखं विलोक्य तत्रैव प्रस्थितं राजानं वीक्ष्यावलोकन-