राजा-गम्यतां पुनदर्शनाय ।
(सर्वाः सगन्धर्वाः आकाशोत्पतनं रूपयन्ति । )
उर्वशी-(उत्पतनभङ्गं रूपयित्वा) अम्मो, लदाविडवे एसा एआवली वैअअन्तिआ मे लग्गा [ अहो, लताविटपे एषा एकावली वैजयन्तिका मे लग्ना ] ( सव्याजमुपसृत्य राजानं पश्यन्ती) सहि चित्तलेहे, मोआवेहि दाव णम् । [ सखि चित्रलेखे ! मोचय तावदेनाम् ।
चित्रलेखा-(विलोक्य विहस्य च ) आम् , दिदं क्खु लग्गा सा असक्का मोआविदुम् । [आम् , दृढं खलु लग्ना सा, अशक्या मोचयितुम् ।]
उर्वशी-अलं पडिहासेण । मोआवेहि दाव णम् । [अलं परिहासेन । मोचय तावदेनाम् ।]
इति ।' अहं जिगमिषामीत्यतः भवदाज्ञां लिप्से । अत्र चित्रलेखामुखेन कृतविज्ञापनाया उर्वश्याश्चेतसि समद्भूतबीजार्थप्ररोहस्योपवर्णनादुत्तरत्र च “गम्यतां पुनदर्शनायेति" नायकोक्त्या ध्वनितस्य राज्ञो मनसि परिस्फुरतः पूर्वरागस्य प्ररोहादुद्भेदाख्यं मुखसन्ध्यङ्गमुपन्यस्तम् ; "बीजार्थस्य प्ररोहः स्यादुद्भेदः" इति दर्पणलक्षणात् ॥
राजा-गम्यतां पुनदर्शनाय । पुनः त्वरितमेव समागमाय गम्यताम् पुनरावयोर्मेलनं अचिरेण भवेदिति समुद्दिश्य गम्यताम् ।
(सर्वाः गन्धर्वसहिता अप्सरसः आकाशोत्पतनं आकाशे उड्डयनं रूपयन्ति नाटयन्तीत्यर्थः।)
उर्वशी-(उत्पतनभङ्गं रथक्षोभं रूपयित्वा प्रदर्श्य) अम्मो इति विस्मये । लतायाः विटपे शाखायां एकावली एकपङ्क्तिमयी वैजयन्तिका मौक्तिकहारः लग्ना रुद्धा । (सव्याजम् एतन्मिषेण समीपमेत्य राजानं वीक्षन्ती प्राह) सखि चित्रलेखे ! मोचय तावदेनं मौक्तिकसरम् । पूर्वरागस्यात्र विकासः । चित्रलेखा-(विलोक्येषत्स्मितं च कृत्वा) आम् इति स्वीकारे, ज्ञातमित्यर्थः । सा एकावली तु दृढं गाढं लग्ना तत्र विटपे निरुद्धा, अतश्च मोचयितुमशक्या । 'आम् ज्ञानविनिश्चये' इति वोपालितः । अयञ्चोपहासः । चित्रलेखा उर्वश्याः हृदयस्थमभीप्सितं परिज्ञाय वक्रवचनेने अत्र च भाववक्रता।
उर्वशी-परिहासेन हास्येनालम् पर्याप्तम्-हास्यं मा कुरु । मोचय तावदेना हारयष्टिमिति भावः । अलंयोगे तृतीया।