( ततः प्रविशति चेटी। )
चेटी-आणत्तम्हि देवीए कासिराअदुहिदाए जधा-हञ्जे णिउणिए ! जदो पहुदि भअवदो सुज्जस्स उअत्थाणं कदुअ पडिणिउत्तो महाराओ तदो पहुदि सुण्णाहिअओ विअ लक्खीअदि । ता तुमं वि दाव अजमाणवआदो जाणाहि से उक्कंठाकारणं त्ति । ता कहं स बम्हवंधू अदिसंधादव्वो । अहवा तणग्गलग्गं विअ अवस्साअसलिलं ण तस्सिं राअरहस्सं चिरं चिट्ठदि त्ति तक्केमि । ता जाव णं अण्णेसामि । (परिक्रम्यावलोक्य च ) अम्मो ! आलेक्खवाणरो विअ किं पि मंतअंतो णिहुदो अज्जमाणअवो चिट्ठदि । ता जाव णं उवसप्पामि । (उपसृत्य) अज्ज ! वंदामि । [आज्ञप्तास्मि देव्या काशिराजदुहित्रा-यथा हञ्जे निपुणिके ! यतः प्रभृति भगवतः सूर्यस्योपस्थानं कृत्वा प्रतिनिवृत्तो महाराजस्ततः प्रभृति शून्यहृदय इव लक्ष्यते । तत्त्वमपि तावदार्यमाणवकाज्जानीहि अस्योत्कण्ठाकारणमिति । तत्कथं स ब्रह्मबन्धुरतिसन्धातव्यः । अथवा तृणाग्रलग्नमिवावश्यायसलिलं न तस्मिन् राजरहस्यं चिरं
(ततः तत्पश्चात् चेटी काचन दासी प्रविशति ।)
चेटी-आशप्तेति-देव्या राज्ञ्या काशिराजदुहित्रा काशिराजस्य कन्या पुरूरवसो महिषी तया आज्ञप्ताऽस्मि । यथा वक्ष्यमाणेन विधिना । "हञ्जे निपुणिके । निपुणिकेति चेट्यभिधानम् । यतःप्रभृति यस्मात् समयात् भगवतः सूर्यस्य उपस्थानं कृत्वा सेवां भक्तिंं पूजां वा विधाय प्रतिनिवृत्तः प्रत्यागतो महाराजः ततःप्रभृति तस्मादेव समयात् शून्यहृदयः अव्यवस्थितचित्तः अनवहितमनोवृत्तिरेव लक्ष्यते दृश्यते । यतः भगवतः सूर्यस्य सेवां विधाय प्रत्यावृत्तो राजा तत एव अस्थिरहृदयः स अभूत् । अतएव त्वमपि आर्यमाणवकाद् विदूषकाद् जानीहि उत्कण्ठायाः चिन्तायाः कारणम् । अस्यानवस्थितचित्तवृत्तित्वस्य चिन्तायाश्च किं कारणमिति विदूषकं त्वं पृच्छ ।" माणवकेति विदूषकनाम । उत्कण्ठास्वरूपम् यथा--"सर्वेन्द्रियसुखास्वादः यत्रास्ते हि मनः स्त्रियाम् । तत्प्राप्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः ॥" एतावती महिष्या आज्ञा । तत् अत एव स ब्रह्मबन्धुः दुष्टविप्रः कथमतिसन्धातव्यः वञ्चनीयः । कथं अहं मधुरालापैः विश्वासं समुत्पाद्य सरलीभूय तस्मान्माणवकादिमां वार्तामवैमीत्यर्थः । इति चेटी मनसि विचारयति । 'ब्रह्मबन्धुरधिक्षेपे निर्देशे च द्विजन्मनाम्" इति ब्राह्मणापसदरूपेऽर्थे ब्रह्मबन्धुपदस्य वाच्यत्वम् । अथवा अलं विचारेणेति मतिविपर्यये । कुतः तस्मिन् विदूषके राजरहस्यं राज्ञः गोपनीयं .