पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१३९

पुटमेतत् सुपुष्टितम्
४१
द्वितीयोऽङ्कः

तिष्ठतीति तर्कयामि । तद्यावदेनमन्वेषयामि । अहो ! आलेख्यवानर इव किमपि मन्त्रयन्निभृत आर्यमाणवकः तिष्ठति । तद्यावदेनमुपसर्पामि । आर्य ! वन्दे ।

 विदूषकः--सत्थि भोदीए । ( आत्मगतम् ) एदं दुट्ठचेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि विअ । (किंचिन्मुखं संवृत्य । प्रकाशम् । ) भोदि णिउणिए ! संगीदवावारं उज्झिअ कहिं पत्थिदासि ? [स्वस्ति भवत्यै । एतां दुष्टचेटिकां प्रेक्ष्य तत् राजरहस्यं हृदयं भित्वा निष्क्रामतीव । भवति निपुणिके ! संगीतव्यापारमुज्झित्वा कुत्र प्रस्थितासि ? ]

 चेटी--देवीए वअणेण अजं एव्व पेक्खिदुम् । [ देव्या वचनेनार्यमेव प्रेक्षितुम् ।]

 विदूषकः--किं तत्तभोदी आणवेदी ? [किं तत्रभवती आज्ञापयति ?]


वृत्तान्तं चिराय बहुकालपर्यन्तं न तिष्ठति अनुद्घाटितं न स्थास्यतीति तर्कयामि विचारये । यथा तृणस्याग्रभागे लग्नमवश्यायसलिलम् हिमकणः चिरं स्थातुं न शक्नोति तथैव । यथा तृणाग्रे लग्नो हिमकणस्तस्मिन् स्थातुं न प्रभवति तथैव अस्मिन् राजरहस्यं चिरकालपर्यन्तं गुप्तं स्थातुमशक्यम् । अस्य विदूषकस्य हृदयगाम्भीर्याभावात् । "अवश्यायो नीहारः" । तद्यावदनेन हेतुना एनं विदूषकमन्वेषयामि क्वास्तीति । अहो इति विस्मये, आलेख्यवानर इव चित्रस्थमर्कट इव किमप्यज्ञातं मन्त्रयन् स्थिरं विचारयन् निभृतो निश्चलः आर्यमाणवकस्तिष्ठति । तद्यावदेनमुपसर्पामि । इयमहमस्योपान्तिकं गच्छामीति भावः । (उपसृत्य-समीपं गत्वा) आर्य ! वन्दे अभिवादये इत्यर्थः । अत्रोपमाद्वयम् ।

 विदूषकः--स्वस्ति भवत्यै-तव कुशलं भूयादिति । अत्र स्वस्तियोगे चतुर्थी । (आत्मगतम्-मनस्येव ) एतां इमां दुष्टचेटिकां प्रेक्ष्य दृष्ट्वा तत् उर्वशीविषयकं राजरहस्यं हृदयं भित्वा निष्क्रामतीव बहिरागच्छतीव । तत्कथयितुमुत्कण्ठते मे चेतः इत्यर्थः । [किञ्चिन्मुखं संवृत्य पिधाय] भवति निपुणिके ! कालोऽयं ते संगीतस्य । अतः संगीतव्यापारं गायनकार्यं उज्झित्वा परित्यज्य विहाय वा कुत्र कस्मिन्नुद्देशे प्रस्थिताऽसि गच्छसीत्यर्थः ।

 चेटी--देव्याः काशिराजदुहित्र्याः वचनेनाज्ञया आर्यमेव भवन्तमेव प्रेक्षितुं द्रष्टुं प्रस्थितास्मीति शेषः ।

 विदूषकः--तत्रभवती माननीया देवी किमाज्ञापयति ?