पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१४२

पुटमेतत् सुपुष्टितम्
४४
विक्रमोर्वशीये

 चेटी-जं अजो आणवेदि । ( इति निष्क्रान्ता) [यदार्यः आज्ञापयति ।

(नेपथ्ये वैतालिकः)

 जयतु जयतु देवः-

  आ लोकान्तात्प्रतिहततमोवृत्तिरासां प्रजानां
   तुल्योद्योगस्तव च सवितुश्चाधिकारो मतो नः ।


अस्मात् विचारात् स्वयमेव निवर्तिष्यते। भवत्याः विलक्षणसौन्दर्यशालिनं मुखं दृष्ट्वा परित्यक्ष्यत्येनं विचारम् । उर्वश्याः वदनारविन्दम् त्वदास्यदास्येऽप्यधिकारितां न गमिष्यतीति भावः । इयं विदूषकस्य चाटुपटुता ।

 चेटी-यदार्य आज्ञापयति । निवेदयिष्यामि यदार्येण वाचिकं दत्तम् । (इति निष्क्रान्ता स्वकार्यं संसाध्य महिषीं प्रतिनिवृत्ता।)

 एतावत्पर्यन्तं चेटीविदूषकयोरन्योन्यवचनं प्रपश्चाख्यम् वीथ्यङ्गम् उत्थापयति । यदुक्तं साहित्यदर्पणकृता, “मिथो वाक्यमसद्भूतं प्रपञ्चो हास्यकृन्मतः” असद्भूतमसत्यम् । अत्र उर्वशीनाम्ना देवी आलपितेति सर्वमसत्यमेव भाषितम् तया चेट्या ब्रह्मबन्धुं तं वञ्चयितुम् । अत एव अत्र प्रपञ्चाख्यम् वीथ्यङ्गम् पुष्णाति प्रबन्धस्यास्य रसात्मानम् ।

 (नेपथ्ये वैतालिकः-अन्तर्वेशरचनागृहात् वैतालिकः समयसूचकः पठति ।) "वैतालिकाः बोधकराः" इत्यमरः । विविधेन तालेन शब्देन चरन्तीति व्युत्पत्तः । 'चरतेष्ठक्' इति सूत्रेणात्र ठक्प्रत्ययः ।

 'आलोकान्तात्' इत्यारभ्य “पासपडिवत्ति होमि" इतिपर्यन्तम् चूलिकाख्यमर्थोपक्षेपकम् । चूलिका हि नाम "अन्तर्जवनिकासंस्थैः सूचनाऽर्थस्य चूलिका" । अत्र चूलिकया अर्थोपक्षेपणं कृतम् । राजागमनरूपार्थसूचनमिति । अङ्कच्छेदार्थं अर्थोपक्षेपकाणि दातव्यानि कविवरैः । यदुक्तं हि "दिनावसाने कार्यं यद्दिने नैवोपपद्यते । अर्थोपक्षेपकैर्वाच्यमङ्कच्छेदं विधाय तत्" ॥ इति वचनात् । पञ्चसु अर्थोपक्षेपकेषु अन्यतमेयं चूलिका । इह राजप्रवेशसूचनार्थम् स वैतालिकः पठति----

 जयतु जयतु देवः । राज्ञः सर्वत्र विजयो भूयादिति मङ्गलशासनम् ।

 आ लोकान्तादिति ।

 आसां प्रजानां भूलोकस्थचराचराणां प्रजानां जीवानां आ लोकान्तात् लोकान्तं समस्तजगदभिव्याप्य प्रतिहततमोवृत्तिरपास्तपापाचरणः तव च सवितुः सूर्यस्य च अधिकारः कर्तव्यम् तुल्योद्योगः समानश्रमः नः मतः अस्माकं मते वर्तते । यथा सूर्यस्य प्रादुर्भावात् मध्यलोकस्थजनाः तमोरहिताः भवन्ति तथैव तव समागमात् तेषां तामसीवृत्तिर्नश्यति । इह तमःशब्दे अर्थद्वैविध्यम् । सवितुः पक्षे तमसः अन्धकारार्थकत्वम् । राजपक्षे तु तामसी पापाचरणात्मिका हीनवृत्तिः। यतस्तवापि सूर्यसदृशं तमोघ्नम् कर्म अतः तव च भानोश्च तुल्योद्योगलम् सिद्धम् ।